________________
तृतीयाध्यायस्य द्वितीयः पादः
२२७ ल+लिट्
(२) हशश्वतोर्ल।११६ । प०वि०-ह-शश्वतो: ७।२ लङ् ११ च अव्ययपदम्।
स०-हश्च शश्वच्च तौ-हशश्वतौ, तयो:-हशश्वतो: (इतरेतरयोगद्वन्द्व:)।
अनु०-भूतेऽनद्यतने, परोक्षे इति चानुवर्तते। अन्वय:-हशश्चतोरुपपदयो: परोक्षेऽनद्यतने भूते धातोर्लङ् लिट् च ।
अर्थ:-ह-शश्वतोरुपपदयो: परोक्षेऽनद्यतने भूते कालेऽर्थे वर्तमानाद् धातो: परो लङ् लिट् च प्रत्ययो भवति ।
उदा०-(ह) स इति ह अकरोत् (लङ्)। स इति ह चकार (लिट्) । (शश्वत्) स शश्वद् अकरोत् (लङ्)। स शश्वच्चकार (लिट)।
आर्यभाषा-अर्थ-(ह-शश्वतो:) ह और शश्वत् शब्द उपपद होने पर (परोक्षे) इन्द्रियों के विषय से दूर (अनद्यतने) आज को छोड़कर (भूते) भूतकाल अर्थ में विद्यमान (धातो:) धातु से परे (लङ्) लड् (च) और (लिट्) लिट् प्रत्यय होता है।
____ उदा०-(ह) स इति ह अकरोत् (लङ्)। स इति ह चकार (लिट्)। उसने ऐसा निश्चय से किया। (शश्वत्) स शश्वद् अकरोत् (लङ्) । स शश्वच्चकार । उसने सदा किया।
सिद्धि-अकरोत् की सिद्धि ३।२।१११ में और चकार की सिद्धि ३।२।११५ में देख लेवें। ल+लिट्
(३) प्रश्ने चासन्नकाले।११७। प०वि०-प्रश्ने ७१ च अव्ययपदम्, आसन्नकाले ७१।
स०-आसन्न: समीपम्। आसन्न: कालो यस्य स आसन्नकाल:, तस्मिन्-आसन्नकाले (बहुव्रीहि:)।
अनु०:-भूतेऽनद्यतने, परोक्षे लिट् लङ् चेत्यनुवर्तते। अन्वय:-आसन्नकाले प्रश्ने परोक्षेऽनद्यतने भूते धातोर्लङ् लिट् च ।
अर्थ:-आसन्नकाले प्रश्ने पृच्छ्यमाने परोक्षेऽनद्यतने भूते कालेऽर्थे वर्तमानाद् धातो: परो लङ् लिट् च प्रत्ययो भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org