________________
लृट्
तृतीयाध्यायस्य द्वितीयः पादः
वत्स्यामः ।
(१) अभिज्ञावचने लृट् । ११२ ।
प०वि० - अभिज्ञावचने ७ । १ लृट् १ । १ ।
स० - अभिज्ञा=स्मृतिः । अभिज्ञाया वचनमिति अभिज्ञावचनम्, तस्मिन्-अभिज्ञावचने (षष्ठीतत्पुरुषः ) ।
अनु० - भूतेऽनद्यतने इति चानुवर्तते ।
अन्वयः-अभिज्ञावचने उपपदेऽनद्यतने भूते धातोर्लट् । अर्थ:-अभिज्ञावचने उपपदेऽनद्यतने भूते कालेऽर्थे धातोः परो लृट् प्रत्ययो भवति ।
उदा०-यज्ञदत्तः प्राह-अभिजानासि ( स्मरसि ) देवदत्त ! वयं कश्मीरेषु
२२३
आर्यभाषा-अर्थ-(अभिज्ञावचने) पूर्व स्मृति-कथन उपपद होने पर (अनद्यतने) आज को छोड़कर (भूते) भूतकाल अर्थ में (धातोः) धातु से परे (लृट्) लृट् प्रत्यय होता है। उदा०-यज्ञदत्तः प्राह-अभिजानासि ( स्मरसि ) देवदत्त ! वयं कश्मीरेषु वत्स्यामः । यज्ञदत्त कहता है - हे देवदत्त ! याद है, हम कश्मीर में रहे थे ।
Jain Education International
से
सिद्धि-वत्स्यामः । वस्+लृट् । वस्+स्य+मस् । वत्+स्या+मस्। वत्स्यामः । यहां अभिज्ञावचन उपपद होने पर 'वस निवासें' (भ्वा०प०) धातु से इस सूत्र अनद्यतन भूतकाल में 'लृट्' प्रत्यय है । 'स्यतासी लृलुटोः' (३।१।३३) से 'स्य' प्रत्यय होता है । 'स: स्यार्धधातुकें' (७।४।४९) से 'वस्' धातु के 'स्' को 'त्' आदेश और 'अतो दीर्घो यत्र' (७/३ | १०१ ) से 'स्य' को दीर्घ होता है। लृट्-प्रतिषेध:
(२) न यदि । ११३ |
प०वि०-न अव्ययपदम्, यदि ७।१।
अनु० - भूते, अनद्यतने, अभिज्ञावचने, लृट् इति चानुवर्तते । अन्वयः - यदि शब्देऽभिज्ञावचने उपपदेऽनद्यतने भूते धातोर्लट् न । अर्थः-यत्-शब्दसहितेऽभिज्ञावचने उपपदेऽनद्यतने भूते कालेऽर्थे धातो: परो लृट् प्रत्ययो न भवति 'अनद्यतने लङ्-' ( ३।२।१११) इति लङ् प्रत्ययो भवति ।
For Private & Personal Use Only
www.jainelibrary.org