________________
तृतीयाध्यायस्य द्वितीयः पादः
क्विप्
(१) सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप् । ६१|
प०वि० - सत्-सू - द्विष- द्रुह - दुह - युज - विद - भिद - छिद-जि-नी- राजाम् ६।३ (पञ्चम्यर्थे), उपसर्गे ७।१, अपि अव्ययपदम्, क्विप् १ । १ ।
१८३
स०-सच्च सूश्च द्विषश्च द्रुहश्च दुहश्च युजश्च विदश्च भिदश्च छिदश्च जिश्च नीश्च राज् च ते - सत्०राजः, तेषाम्-सत्॰राजाम् (इतरेतरयोगद्वन्द्वः) ।
अनु०-सुपि इत्यनुवर्तते ।
अन्वयः -सुप्युपपदे उपसर्गेऽपि सत्०राजिभ्यो धातुभ्यः क्विप् । अर्थ:-सुबन्त उपपदे सोपसर्गेभ्यो निरुपसर्गेभ्यश्चाऽपि सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजिभ्यो धातुभ्यः क्विप् प्रत्ययो भवति ।
उदा०- ( सत्) शुचौ सीदतीति शुचिषत् । अन्तरिक्षे सीदतीति अन्तरिक्ष सत्। उपसीदतीति उपसत् । (सू) अण्डानि सूते इति अण्डसू: । शतं सूते इति शतसू: । प्रसूते इति प्रसूः । (द्विष्) मित्रं द्वेष्टीति मित्रद्विट् । प्रद्वेष्टीति प्रद्विट्। (द्रुह्) मित्रं द्रुह्यतीति मित्रध्रुक् । प्रद्रुह्यतीति प्रध्रुक्। (दुह्) गां दोग्धीति गोधुक् । प्रदोग्धीति प्रधुक् । (युज्) अश्वं युनक्तीति अश्वयुक् । प्रयुनक्तीति प्रयुक् । (विद्) वेदं वेत्तीति वेदवित् । प्रवेत्तीति प्रवित् । ब्रह्म वेत्तीति ब्रह्मवित् । (भिद्) काष्ठं भिनत्तीति काष्ठभित् । प्रभिनत्तीति प्रभित्। (छिद्) रज्जुं छिनत्तीति रज्जुछित्। प्रच्छिनत्तीति प्रच्छित्। (जि) शत्रुं जयतीति शत्रुजित् । प्रजयतीति प्रजित् । (नी) सेनां नयतीति सेनानीः । प्रणयतीति प्रणीः । ग्रामं नयतीति ग्रामणीः । अग्रं नयतीति अग्रणीः । ( राज्) राजते इति राट् । विराजते इति विराट् । सम्राजते इति सम्राट् ।
आर्यभाषा - अर्थ - (सुपि) सुबन्त उपपद होने पर ( उपसर्गेऽपि ) सोपसर्ग और निरुपसर्ग (सत्०राजाम्) सत्, सू, द्विष्, द्रुह, दुह, युज, विद, भिद, छिद, जि, नी, राज् (धातो:) धातुओं से परे (क्विप्) क्विप् प्रत्यय होता है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org