________________
इण् (गा) -
द्वितीयाध्यायस्य चतुर्थः पादः
( ११ ) इणो गा लुङि । ४५ ।
प०वि०-इणः ६।१ गा १ । १ लुङि ७ । १ । अनु० - आर्धधातुके इत्यनुवर्तते । अन्वयः - इणो गा लुङि आर्धधातुके ।
अर्थ:-इणः स्थाने गा-आदेशो भवति, लुङि आर्धधातुके विषये ।
उदा०-अगात् । अगाताम् । अगुः ।
आर्यभाषा - अर्थ - (इणः) इण् धातु के स्थान में (गा) आदेश होता है (लुङि) लुङ्लकार सम्बन्धी (आर्धधातुके) आर्धधातुक विषय में ।
उदा०-अगात्। वह गया। अगाताम् । वे दोनों गये। अगुः | वे सब गये । सिद्धि - अगात् । इण्+लुङ् । अट्+गा+च्लि+लुङ् । अ+गा+सिच् + तिप् । अ+गा+स्+त् । अ+गा+0+त् । अगात् ।
यहां 'इण् गतौँ' (अदा०प०) धातु से 'लुङ्' (३ / २ / ११० ) से भूतकाल में लुङ् प्रत्यय और इसके आर्धधातुक विषय में इस सूत्र से इण् धातु के स्थान में गा आदेश होता है । 'गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु (२/४ /७७) से सिच्' का लुक् हो जाता है।
इण् (गम्) -
( १२ ) णौ गमिरबोधने । ४६ ।
प०वि० - णौ ७ ।१ गमि: १ । १ अबोधने ७ । १ ।
स०-न बोधनमिति अबोधनम्, तस्मिन् - अबोधने ( नञ्तत्पुरुषः ) । अनु० - आर्धधातुके, इण इति चानुवर्तते ।
अन्वयः - अबोधने इणो गमिर्णावार्धधातुके ।
अर्थ :- अबोधनेऽर्थे वर्तमानस्य इण: स्थाने गमिरादेशो भवति, णिचि आर्धधातुके विषये ।
उदा० - गमयति । गमयतः । गमयन्ति ।
आर्यभाषा - अर्थ - (अबोधने) ज्ञान अर्थ से रहित ( इणः ) इण् धातु के स्थान में (गमि) गमि आदेश होता है (णौ ) णिच् प्रत्यय सम्बन्धी (आर्धधातुके) आर्धधातुक विषय में ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org