________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
सo - प्राणी च तूर्यश्च सेना च ताः - प्राणितूर्यसेना, तासाम्प्राणितूर्यसेनानाम्, प्राणितूर्यसेनानामङ्गानीति प्राणितूर्यसेनाङ्गानि, तेषाम्-प्राणितूर्यसेनाङ्गानाम् (इतरेतरयोगद्वन्द्वगर्भितषष्ठीतत्पुरुषः) । अनु० - एकवचनमित्यनुवर्तते ।
अन्वयः - प्राणितूर्यसेनाङ्गानां द्वन्द्वश्चैकवचनम् ।
अर्थ:- प्राण्यङ्गानां तूर्याङ्गानां सेनाङ्गानाम् च द्वन्द्वसमासोऽपि एकवचनम्=एकवचनस्यार्थस्य वाचको भवति, तत्रैकवचनं भवतीत्यर्थः । उदा०-(१) प्राण्यङ्गानाम्- पाणी च पादौ च एतेषां समाहारः पाणिपादम् । शिरश्च ग्रीवा च एतयोः समाहारः शिरोग्रीवम् ।
(२) तूर्याङ्गानाम् - मार्दङ्गिकाश्च पाणविकाश्च एतेषां समाहारो मार्दङ्गिपाणविकम् । वीणावादकाश्च परिवादकाश्च एतेषां समाहारो वीणावादकपरिवादकम् ।
४५०
(३) सेनाङ्गानाम् - रथिकाश्च अश्वरोहाश्च एतेषां समाहारो रथिकाश्वरोहम् । रथिकाश्च पादाताश्च एतेषां समाहारो रथिकपादातम् ।
आर्यभाषा-अर्थ- (प्राणितूर्यसेनाङ्गानाम्) प्राणी के अङ्ग, तूर्य = वाद्यवृन्द (आरकेष्ट्रा) के अङ्ग और सेना के अङ्गवाची शब्दों का ( द्वन्द्व:) द्वन्द्व समास (च) भी (एकवचनम् ) एक अर्थ का वाचक होता है, अर्थात् वहां एकवचन होता है।
उदा०- (१) प्राणी अङ्ग-पाणी च पादौ च एतेषां समाहार: पाणिपादम् । हाथ और पांव का समूह । शिरश्च ग्रीवा च एतयोः समाहारः शिरोग्रीवम् । शिर और गर्दन का समूह ।
(२) तूर्य - अङ्ग-मार्दङ्गिकाश्च पाणविकाश्च एतेषां समाहारो मार्दङ्गिकपाणविकम्। मृदङ्ग (ढोल) और पणव (वाद्यविशेष) बजानेवालों का समूह। वीणावादकाश्च परिवादकाश्च एतेषां समाहार इति वीणावादकपरिवादकम् । वीणा बजानेवाले और सारङ्गी बजानेवालों का समूह ।
(३) सेना - अङ्ग - रथिकाश्च अश्वरोहाश्च एतेषां समाहार इति रथिकाश्वरोहम् । रथ में बैठनेवाले और घुड़सवारों का समूह । रथिकाश्च पादाताश्च एतेषां समाहारो रथिकपादातम् । रथ में चलनेवाले और पैदल चलनेवालों का समूह ।
सिद्धि - (१) पाणिपादम् । यहां पाणि और पाद शब्दों के समाहार द्वन्द्व में एकवचन है। ऐसे ही सब उदाहरणों में एकवद्भाव समझ लेवें ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org