________________
द्वितीयाध्यायस्य चतुर्थः पादः
द्विगु-एकवद्भावः
(१) द्विगुरेकवचनम् |१|
प०वि० - द्विगु: १ । १ एकवचनम् १ । १ । स०-एकस्य वचनमिति एकवचनम् (षष्ठीतत्पुरुष: ) ।
अर्थ:-द्विगुः समास एकवचनं भवति, एकस्यार्थस्य वाचको भवतीत्यर्थः । समाहारद्विगोश्चेदं ग्रहणं नान्यस्य ।
उदा०-पञ्चानां पूलानां समाहार इति पञ्चपूली । पञ्चानां वटानां समाहार इति पञ्चवटी ।
आर्यभाषा-अर्थ- (द्विगु:) द्विगु समास ( एकवचनम् ) एकवचन अर्थात् एक अर्थ का वाचक होता है, अर्थात् वहां एकवचन होता है। यहां समाहार द्विगु का ग्रहण है, अन्य का नहीं ।
उदा०-पञ्चानां पूलानां समाहार इति पञ्चपूली । पांच पूलों का समुदाय । पञ्चानां वटानां समाहार इति पञ्चवटी । पांच बड़ों का समुदाय ।
सिद्धि-पञ्चपूली। पञ्चन् + आम्+ पूल+आम् । पञ्चपूल + ङीप् । पञ्चपूल + ई / पञ्चपूली + सु । पञ्चपूली ।
यहां 'तद्धितार्थोत्तरपदसमाहारे च' (२1१1५० ) से द्विगु समास है । 'द्विगो:' (४/१/२१ ) से स्त्रीलिङ्ग में ङीप् प्रत्यय है। यहां पांच पूलों के कथन में 'बहुषु बहुवचनम्' (१।४।२१) से बहुवचन प्राप्त था । इस सूत्र से एकवचन का विधान किया गया है। ऐसे ही - पञ्चवटी ।
द्वन्द्व-एकवद्भावप्रकरणम्
प्राण्याद्यङ्गानाम्—
(१) द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् ॥ २ ॥
प०वि० - द्वन्द्वः १ । १ च अव्ययपदम् प्राणि तूर्य-सेनाङ्गानाम् ६ । ३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org