________________
४४८
पाणिनीय-अष्टाध्यायी-प्रवचनम् अनु०-अन्यतरस्यामित्यनुवर्तते।
अन्वय:-आयुष्यमद्रभद्रकुशलसुखार्थहितैर्युक्तेऽन्यतरस्यां चतुर्थी चाशिषि।
अर्थ:-आयुष्यमद्रभद्रकुशलसुखार्थहितै: पदैः संयुक्ते शब्दे विकल्पेन चतुर्थी विभक्तिर्भवति। आशिषि गम्यमानायाम्। पक्षे च षष्ठी विभक्तिर्भवति।
उदा०-(१) आयुष्यम्-आयुष्यं देवदत्ताय भूयात् । आयुष्यं देवदत्तस्या भूयात् । (२) मद्रम्-मद्रं देवदत्ताय भूयात् । मद्रं देवदत्तस्य भूयात् । (३) भद्रम्-भद्रं देवदत्ताय भूयात् । भद्रं देवदत्तस्य भूयात् । (४) कुशलम्-कुशलं देवदत्ताय भूयात् । कुशलं देवदत्तस्य भूयात् । (५) सुखम्-सुखं देवदत्ताय भूयात् । सुखं देवदत्तस्य भूयात्। (६) अर्थ:-अर्थो देवदत्ताय भूयात् । अर्थो देवदत्तस्य भूयात् । (७) हितम्-हितं देवदत्ताय भूयात् । हितं देवदत्तस्य भूयात् ।
आर्यभाषा-अर्थ-(आयुष्य०हितैः) आयुष्य, मद्र, भद्र, कुशल, सुख, अर्थ और हित पदों से संयुक्त शब्द में (अन्यतरस्याम्) विकल्प से (चतुर्थी) चतुर्थी विभक्ति होती है। पक्ष में षष्ठी विभक्ति होती है।
उदा०-(१) आयुष्य-आयुष्यं देवदत्ताय/देवदत्तस्य भूयात् । देवदत्त की दीर्घ आयु हो। (२) मद्र-मद्रं देवदत्ताय/देवदत्तस्य भूयात् । देवदत्त को हर्ष हो। (३) भद्र-भद्रं देवदत्ताय/देवदत्तस्य भूयात् । देवदत्त का कल्याण हो। (४) कुशल-कुशलं देवदत्ताय/देवदत्तस्य भूयात् । देवदत्त का कुशल हो। (५) सुख-सुखं देवदत्ताय/देवदत्तस्य भूयात् । देवदत्त को सुख हो। (६) अर्थ-अर्थो देवदत्ताय/देवदत्तस्य भूयात् । देवदत्त के धन हो। (७) हित-हितं देवदत्ताय/देवदत्तस्य भूयात् । देवदत्त का हित हो।
सिद्धि-आयुष्यं देवदत्ताय/देवदत्तस्य भूयात् । 'भूयात्' यह पद आशीर्लिङ् प्रथम पुरुष एकवचन का है। यहां आशीर्वाद अर्थ में आयुष्य पद से संयुक्त 'देवदत्त' शब्द में चतुर्थी और षष्ठी विभक्ति है। ऐसे सब उदाहरणों में समझ लेवें ।
इति पण्डितसुदर्शनदेवाचार्यविरचिते पाणिनीय-अष्टाध्यायी-प्रवचने
द्वितीयाध्यायस्य तृतीयः पादः समाप्तः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org