________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
(२) हे अग्ने ! अग्नि+सु । अग्ने+0। अग्ने। यहां आमन्त्रित की प्रथमा विभक्ति के 'सु' प्रत्यय की सम्बुद्धि संज्ञा होने पर 'हस्वस्य गुण:' ( ७ । ३ । १०८) से अंग को गुण होता है और 'एहस्वात् सम्बुद्धे:' ( ६ । १ । ६९) से सम्बुद्धिसंज्ञक सु-प्रत्यय का लोप हो जाता है। ऐसे ही - हे वायो !
षष्ठीविभक्तिप्रकरणम्
४२८
षष्ठी
(१) षष्ठी शेषे । ५० ।
प०वि०-षष्ठी १।१ शेषे १ । १ । पूर्वोक्तादन्य: शेष:, तस्मिन् शेषे । अन्वयः - शेषे षष्ठी ।
अर्थ :- शेषे = यः कर्मादिभ्योऽन्यः प्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिसम्बन्धादिस्तत्र षष्ठी विभक्तिर्भवति ।
उदा०-राज्ञ: पुरुष: । पशोः पादः । पितुः पुत्रः, इत्यादिकम् ।
आर्यभाषा - अर्थ - (शेषे) जो कर्म आदि से भिन्न तथा प्रातिपदिकार्थ से अतिरिक्त स्व-स्वामी सम्बन्ध आदि अर्थ है, उसमें (षष्ठी) षष्ठी विभक्ति होती है।
उदा०-राज्ञः पुरुषः। राजा का पुरुष । पशोः पादः । पशु का पांव । पितुः पुत्रः । पिता का पुत्र, इत्यादि ।
सिद्धि-राज्ञ: पुरुष: । यहां पुरुष, राजा का स्व है और राजा, पुरुष का स्वामी है । अतः प्रकृत सूत्र से इस स्व-स्वामी सम्बन्ध अर्थ में 'राजन' शब्द में षष्ठी विभक्ति होती है। ऐसे ही पशो: पाद:, पितुः पुत्रः, आदि ।
करणे षष्ठी
(२) ज्ञोऽविदर्थस्य करणे । ५१ ।
प०वि० - ज्ञः ६ । १ अविदर्थस्य ६ । १ । करणे ७ । १ ।
स०-विद् अर्थो यस्य स विदर्थ:, न विदर्थ इति अविदर्थ:,
तस्मिन्=अविदर्थे (बहुव्रीहिगर्भितनञ्तत्पुरुषः) ।
अनु० - षष्ठी शेषे इत्यनुवर्तते ।
अन्वयः - अविदर्थस्य ज्ञः शेषे करणे षष्ठी ।
अर्थ:-अविदर्थस्य=ज्ञानार्थवर्जितस्य ज्ञाधातो: शेषे करणे कारके
षष्ठी विभक्तिर्भवति ।
उदा०-घृतस्य जानीते देवदत्तः । मधुनो जानीते यज्ञदत्तः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org