________________
४१६
पाणिनीय-अष्टाध्यायी- प्रवचनम्
अनु० - पञ्चमी इत्यनुवर्तते ।
अन्वयः-दूरान्तिकार्थैः पदैर्युक्ते शब्देऽन्यतरस्यां षष्ठी । अर्थ:-दूरार्थैरन्तिकार्थैश्च पदैः संयुक्ते शब्दे विकल्पेन षष्ठी विभक्तिर्भवति । पक्षे पञ्चमी विभक्तिर्भवति ।
उदा० - दूरार्था:-दूरं ग्रामस्य' गुरुकुलम् । दूरं ग्रामाद्' गुरुकुलम्। विप्रकृष्टं ग्रामस्य गुरुकुलम् । विप्रकृष्टं ग्रामाद् गुरुकुलम् ।
(२) अन्तिकार्था: - अन्तिकं ग्रामस्य मन्दिरम् । अन्तिकं ग्रामाद् मन्दिरम्। अभ्याशं ग्रामस्य मन्दिरम् । अभ्याशं ग्रामाद् मन्दिरम् ।
आर्यभाषा-अर्थ- (दूरान्तिकार्थै: ) दूर और अन्तिक (पास) अर्थवाले पदों से संयुक्त शब्द में (अन्यतरस्याम्) विकल्प से (षष्ठी) षष्ठी विभक्ति होती है। पक्ष में पञ्चमी विभक्ति होती है।
उदा०- -(१) दूरार्थ-दूरं ग्रामस्य गुरुकुलम् । गुरुकुल गांव से दूर है। दूरं ग्रामाद् गुरुकुलम् | अर्थ पूर्ववत् है । विप्रकृष्टं ग्रामस्य गुरुकुलम् । अर्थ पूर्ववत् है । विप्रकृष्टं ग्रामाद् गुरुकुलम्। अर्थ पूर्ववत् है ।
(२) आन्तिकार्थ- अन्तिकं ग्रामस्य मन्दिरम् । मन्दिर गांव के पास है । अन्तिकं ग्रामाद् मन्दिरम् । अर्थ पूर्ववत् है । अभ्याशं ग्रामस्य मन्दिरम् । अर्थ पूर्ववत् है । अभ्याशं ग्रामाद् मन्दिरम्। अर्थ पूर्ववत् है ।
सिद्धि - दूरं ग्रामस्य गुरुकुलम् । यहां 'दूर' पद से संयुक्त 'ग्राम' शब्द में षष्ठी विभक्ति है। पक्ष में पञ्चमी विभक्ति होती है- दूरं ग्रामाद् गुरुकुलम् ।
द्वितीया तृतीया पञ्चमी च
(८) दूरान्तिकार्थेभ्यो द्वितीया च । ३५ । प०वि०-दूर-अन्तिकार्थेभ्य: ५ | ३ द्वितीया १ । १ च अव्ययपदम् । स० - दूरं च अन्तिकं चे ते दूरान्तिके । दूरान्तिके अर्थों येषां ते-दूरान्तिकार्था:, तेभ्य:- दूरान्तिकार्थेभ्य: (इतरेतरयोगद्वन्द्वगर्भितबहुव्रीहिः) । अनु० - तृतीया पञ्चमी चानुवर्तते ।
अन्वयः - दूरान्तिकार्थेभ्यो द्वितीया तृतीया पञ्चमी च । अर्थः-दूरार्थेभ्योऽन्तिकार्थेभ्यश्च शब्देभ्यो द्वितीया तृतीया पञ्चमी च विभक्तिर्भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org