________________
४०१
द्वितीयाध्यायस्य तृतीयः पादः स०-नमश्च स्वस्तिश्च स्वाहा च स्वधा च अलं च वषट् च ते-नम०वषट:, तै:-नम:०वषड्भिः । नम०वषड्भिर्योग इति नम०वषड्योग:, तस्मात्-नम०वषड्योगात् (इतरेतरयोगद्वन्द्वगर्भिततृतीयातत्पुरुष:)।
अनु०-'चतुर्थी' इत्यनुवर्तते। अन्वय:-नम:०वषड्योगाच्च चतुर्थी ।
अर्थ:-नम:स्वस्तिस्वाहास्वधालंवषड्युक्तात् प्रातिपदिकाच्च चतुर्थी विभक्तिर्भवति। . उदा०-(१) नम:-नमो देवेभ्य: । (२) स्वस्ति-स्वस्ति प्रजाभ्यः । (३) स्वाहा-अग्नये स्वाहा । (४) स्वधा-स्वधा पितृभ्यः । (५) अलम्-अलं मल्लो मल्लाय। (६) वषट्-वषट् अग्नये । वषट् इन्द्राय ।
आर्यभाषा-अर्थ-(नमव्योगात्) नमः, स्वस्ति, स्वाहा, स्वधा, अलम् और वषट् इन शब्दों से युक्त प्रातिपदिक से (च) भी (चतुर्थी) विभक्ति होती है।
उदा०-(१) नमः-नमो देवेभ्यः । विद्वानों के लिये नमस्कार। (२) स्वस्ति-स्वस्ति प्रजाभ्यः । प्रजा का कल्याण हो। (३) स्वधा-स्वधा पितृभ्यः । पितृजनों के लिये भोजन। (४) अलम्-अलं मल्लो मल्लाय । इस पहलवान के लिये यह पहलवान काफी है। (५) वषट्-वषट् इन्द्राय । इन्द्र देवता के लिये विशिष्ट आहुति । वषट् आनये । अग्नि देवता के लिये विशिष्ट आहुति ।
सिद्धि-नमो देवेभ्यः। यहां नमः' शब्द के योग में 'देव' प्रातिपदिक से चतुर्थी विभक्ति होती है। ऐसे ही- स्वस्ति प्रजाभ्य:' आदि। चतुर्थी द्वितीया च
(५) मन्यकर्मण्यनादरे विभाषाऽप्राणिषु।१७।
प०वि०-मन्य-कर्मणि ७१ अनादरे ७१ विभाषा ११ अप्राणिषु ७।३।
सo-मन्यस्य कर्मेति मन्यकर्म, तस्मिन्-मन्यकर्मणि (षष्ठीतत्पुरुषः) । न आदर इति अनादर:, तस्मिन्-अनादरे (नञ्तत्पुरुषः)। न प्राणिन इति अप्राणिन:, तेषु-अप्राणिषु (नञ्तत्पुरुषः)।
अनु०- चतुर्थी' इत्यनुवर्तते। अन्वय:-अप्राणिषु मन्यकर्मणि विभाषा चतुर्थी अनादरे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org