________________
४००
चतुर्थी
(३) तुमर्थाच्च भाववचनात् । १५ ।
प०वि०-तुम्-अर्थात् ५।१ च अव्ययपदम्, भाव-वचनात् ५ |१ स०-तुमुनोऽर्थ इवार्थो यस्य स तुमर्थ:, तस्मात्-तुमर्थात् (बहुव्रीहि: ) । भावं वक्ति इति भाववचनः, तस्मात् भाववचनात् ( उपपद तत्पुरुषः ) । अनु० - चतुर्थी इति चानुवर्तते ।
अन्वयः - तुमर्थाद् भाववचनाच्च चतुर्थी ।
अर्थ :- तुमुनः समानार्थाद् भाववचनाच्च प्रातिपदिकाच्चतुर्थी विभक्तिर्भवति। ‘भाववचनाश्च' (३ | ३ |११ ) इति यद् वक्ष्यति तस्येदं ग्रहणम् ।
पाणिनीय-अष्टाध्यायी- प्रवचनम्
उदा०-पाकाय व्रजति देवदत्तः, पक्तुं व्रजतीत्यर्थः । त्यागा ब्रह्मदत्तः । त्यागाय=त्यक्तुं व्रजतीत्यर्थः । भूतये व्रजति यज्ञदत्तः । भवितुं व्रजतीत्यर्थः । इष्टये व्रजति सोमदत्तः । यष्टुं व्रजतीत्यर्थः ।
आर्यभाषा - अर्थ - (तुमर्थात् ) तुमुन् प्रत्यय के समान अर्थवाले (भाववचनात्) भाव को कहनेवाले प्रातिपदिक से (च) भी (चतुर्थी) चतुर्थी विभक्ति होती है।
उदा० - पाकाय व्रजति देवदत्तः । देवदत्त पकाने के लिये जाता है। त्यागाय व्रजति ब्रह्मदत्तः । ब्रह्मदत्त त्याग (दान) करने के लिये जाता है । भूतये व्रजति यज्ञदत्तः । यज्ञदत्त कल्याण के लिये जाता है । इष्टये व्रजति सोमदत्तः । सोमदत्त यज्ञ करने के लिये जाता है।
सिद्धि- पाकाय व्रजति देवदत्तः । पच्+घञ् । पच्+अ । पाक+सु । पाकः ।
यहां क्रियार्थ-क्रिया उपपदवाली 'पच्' धातु से 'भाववचनाश्च' (३ | ३ |१९ ) से घञ्-प्रत्यय का तुमुन् अर्थ में विधान किया गया है। प्रकृत सूत्र से तुमर्थक भाववचन 'पाक' प्रातिपदिक से चतुर्थी विभक्ति का विधान किया गया है। ऐसे ही सर्वत्र समझें ।
चतुर्थी
(४) नमः स्वस्तिस्वाहास्वधालंवषड्योगाच्च । १६ । प०वि०-नमः-स्वस्ति-स्वाहा स्वधा - अलम् - वषड्-योगात् ५ ।१ च
अव्ययपदम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org