________________
द्वितीयाध्यायस्य तृतीयः पादः
(१) अनभिहिते |१|
अनभिहिताधिकार:
वि०-अनभिहिते ७।१।
स०-न अभिहितम् इति अनभिहितम्, तस्मिन् अनभिहिते ( नञ्तत्पुरुषः) । अभिहितं कथितमित्यर्थः । अनभिहितम्, अकथितम, अनुक्तम्, अनिर्दिष्टमिति पर्यायाः ।
अर्थः-‘अनभिहिते' इत्यधिकारोऽयम् । यद् इत ऊर्ध्वं वक्ष्यामः, तद् अनभिहिते=अकथिते इत्येवं वेदितव्यम् । यथास्थानमुदाहरिष्यामः ।
आर्यभाषा-अर्थ- (अनभिहिते) 'अनभिहिते' यह अधिकार सूत्र है । इससे आगे जो कहेंगे उसे अनभिहित - अकथित विषय में समझना चाहिये। इसके यथास्थान उदाहरण देंगे।
/
द्वितीयाविभक्तिप्रकरणम्
द्वितीया
(१) कर्मणि द्वितीया । २ ।
प०वि० - कर्मणि ७ । १ द्वितीया १ । १ । अनु०-‘अनभिहिते' इत्यनुवर्तते ।
अन्वयः - अनभिहिते कर्मणि द्वितीया ।
अर्थ:- अनभिहिते कर्मणि कारके द्वितीया विभक्तिर्भवति । उदा० -देवदत्तः कटं करोति । यज्ञदत्तो ग्रामं गच्छति ।
आर्यभाषा-अर्थ- (अनभिहिते) अकथित (कर्मणि) कर्म कारक में (द्वितीया) द्वितीया विभक्ति होती है।
उदा०-देवदत्तः कटं करोति । देवदत्त चटाई बनाता है। यज्ञदत्तो ग्रामं गच्छति । यज्ञदत्त गांव जाता है।
सिद्धि-देवदत्तः कटं करोति । कृ+लट् । कृ+उ+तिप् । कर्+ओ+ति । करोति । यहां कृ धातु से लट्लकार 'ल: कर्मणि च भावे चाकर्मकेभ्यः' (३/४/६९) से कर्ता अर्थ में किया गया है। लकार के कर्ता, कर्म और भाव ये तीन अर्थ होते हैं। जब
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org