________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
अन्वयः-कुमारः सुप् समानाधिकरणैः श्रमणादिभिः सुभिः सह विभाषा समासः कर्मधारयतत्पुरुषः ।
३५४
अर्थ :- 'कुमार' इति सुबन्तं समानाधिकरणैः श्रमणादिभिः समर्थै: सुबन्तैः सह विकल्पेन समस्यते समासश्च कर्मधारयतत्पुरुषो भवति । उदा० - कुमारी चासौ श्रमणा इति कुमारश्रमणा । कुमारी चासौ प्रव्रजिता इति कुमारप्रव्रजिता ।
येऽत्र श्रमणाऽऽदिषु स्त्रीलिङ्गाः शब्दाः पठ्यन्ते तैः सह कुमारशब्द: स्त्रीलिङ्ग एव समस्यते, ये चाध्यापकादयः पुंलिङ्गशब्दाः पठ्यन्ते तै: सह कुमारशब्द: पुंलिङ्ग एव समस्यते ।
श्रमणा । प्रव्रजिता । कुलटा । गर्भिणी । तापसी । दासी । बन्धकी। अध्यापक । अभिरूप। पण्डित । पटु । मृदु । कुशल । चपल । निपुण । इति
श्रमणादयः ।
आर्यभाषा - अर्थ - (कुमार: ) कुमार सुबन्त का ( समानाधिकरणेन ) समान अधिकरणवाले (श्रमणाऽऽदिभिः) श्रमणा आदि समर्थ सुबन्तों के साथ (विभाषा) विकल्प से समास होता है और उसकी ( तत्पुरुषः) कर्मधारयतत्पुरुष संज्ञा होती है।
उदा०- -कुमारी चासौ श्रमणा इति कुमारभ्रमणा । तपस्विनी कुमारी । कुमारी चासौ प्रव्रजिता इति कुमारप्रव्रजिता । संन्यासिनी कुमारी ।
जो यहां श्रमणा आदि गण में स्त्रीलिङ्ग शब्द पढ़े हैं उनके साथ कुमार शब्द का स्त्रीलिङ्ग (कुमारी) में समास होता है और जो अध्यापक आदि पुंलिङ्ग शब्द पढ़े हैं उनके साथ पुंलिङ्ग कुमार शब्द का समास होता है ।
सिद्धि-कुमारभ्रमणा । कुमारी+सु+श्रमणा+सु। कुमारश्रमणा+सु। कुमारश्रमणा । यहां 'पुंवत् कर्मधारयजातीयदेशीयेषु' (६ । ३ । ४२ ) से कुमारी शब्द का पुंवद्भाव होता है। ऐसे ही- 'कुमारप्रव्रजिता' आदि ।
चतुष्पाद्वाचिनः
(२३) चतुष्पादो गर्भिण्या । ७१ ।
प०वि० - चतुष्पाद: १ । ३ गर्भिण्या ३ । १ । स०-चत्वारः पादा यासां ताः - चतुष्पाद (बहुव्रीहि: ) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org