________________
३५२
पाणिनीय-अष्टाध्यायी-प्रवचनम् कृत्यास्तुल्यवाचिनश्च
(२०) कृत्यतुल्याख्या अजात्या।६८। प०वि०-कृत्य-तुल्याख्या: १।३ अजात्या ३१
स०-तुल्यमाचक्षत इति तुल्याख्या: । कृत्याश्च तुल्याख्याश्च ते कृत्यतुल्याख्या: (उपपदगर्भितेतरेतरयोगद्वन्द्वः) ।
अनु०-‘समानाधिकरणेन' इत्यनुवर्तते।।
अन्वय:-कृत्यतुल्याख्या: सुप: समानाधिकरणेनाऽजात्या सुपा सह विभाषा समास: कर्मधारयः।
अर्थ:-कृत्यप्रत्ययान्ता:, तुल्यवाचिनश्च सुबन्ता: समानाधिकरणेनाऽजातिवाचिना समर्थेन सुबन्तेन सह विकल्पेन समस्यन्ते समासश्च कर्मधारयतत्पुरुषो भवति।
उदा०-(कृत्या:) भोज्यं च तदुष्णमिति भोज्योष्णम्। पानीयं च तच्छीतमिति पानीयशीतम्। तुल्याख्या:-तुल्यश्चासौ श्वेत इति तुल्यश्वेत: । तुल्यश्चासौ महानिति तुल्यमहान् । सदृशश्चासौ श्वेत इति सदृशश्वेतः । सदृशश्चासौ महानिति सदृशमहान्।
आर्यभाषा-अर्थ-(कृत्यतुल्याख्या:) कृत्य-प्रत्ययान्त और तुल्यवाची सुबन्तों का (समानाधिकरणेन) समान अधिकरणवाले (अजात्या) अजातिवाची समर्थ सुबन्त के साथ (विभाषा) विकल्प से समास होता है और उसकी (तत्पुरुषः) कर्मधारयतत्पुरुष संज्ञा होती है।
उदा०-(कृत्य) भोज्यं च तदुष्णमिति भोज्योष्णम् । गर्म खाना। पानीयं च तच्छीतमिति पानीयशीतम् । ठण्डा पानी। तुल्याख्या-तुल्यश्चासौ श्वेत इति तुल्यश्वेतः। समान सफेद । तुल्यश्चासौ महानिति तुल्यमहान् । समान महान् । सदृशश्चासौ श्वेत इति सदशश्वेत: । समान सफेद। सदशश्चासौ महानिति सदशमहान् । समान महान् ।
सिद्धि-(१) भोज्योष्णम् । भुज्+ण्यत् । भोज्+य। भोज्य+सु। भोज्यम् । भोज्य+सु+उष्ण+सु। भोज्योष्ण+सु । भोज्योष्णम् ।
यहां प्रथम 'भुज पालनाभ्यवहारयोः' (रुधा०आ०) भुज धातु से 'ऋहलोर्ण्यत्' (३।१।१२४) से ण्यत् कृत्य-प्रत्यय है, तत्पश्चात् कृत्य-प्रत्ययान्त भुज्य शब्द का अजातिवाची (गुणवाची) उष्ण शब्द के साथ कर्मधारय समास है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org