________________
३४८
किं शब्द:
पाणिनीय-अष्टाध्यायी-प्रवचनम्
(१६) किं क्षेपे । ६४ ।
प०वि० - किम् १ ।१ क्षेपे ७ । १ । अनु०-‘समानाधिकरणेन' इत्यनुवर्तते ।
अन्वयः - क्षेपे किं सुप् समानाधिकरणेन सुपा सह विभाषा समास: कर्मधारयतत्पुरुषः ।
अर्थ :- क्षेपेऽर्थे वर्तमानं किम् इति सुबन्तं समानाधिकरणवाचिना समर्थेन सुबन्तेन सह विकल्पेन समस्यते समासश्च कर्मधारयतत्पुरुषो भवति ।
उदा०-कथंभूतः सखा इति किंसखा । किंसखा योऽभिद्रुह्यति । कथं भूतो राजा इति किंराजा । किं राजा यो न रक्षति प्रजाः ।
आर्यभाषा - अर्थ - (क्षेपे) निन्दा अर्थ में विद्यमान (किम् ) किम् सुबन्त का (समानाधिकरणेन) समान अधिकरणवाची समर्थ सुबन्त के साथ (विभाषा) विकल्प से समास होता है और उसकी ( तत्पुरुषः ) कर्मधारयतत्पुरुष संज्ञा होती है।
उदा०-कथंभूतः सखा इति किंसखा । किं सखा योऽभिद्रुह्यति । वह क्या मित्र है जो विश्वासघात करता है । कथंभूतो राजा इति किंराजा । किं राजा यो न रक्षति प्रजा: । वह क्या राजा है जो प्रजा की रक्षा नहीं करता है।
सिद्धि-किंसखा । किम्+सखि+सु । किंसखि+सु । किंसखा ।
यहां 'किम: क्षेपे' (५/४/७०) से निन्दा अर्थ में समासान्त टच् प्रत्यय का प्रतिषेध होता है। ऐसे ही- किंराजा ।
जातिशब्द:
(१७) पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्वष्कयणीप्रवक्तृश्रोत्रियाध्यापकधूर्तेर्जातिः । ६५ ।
प०वि०- पोटा-युवति स्तोक- कतिपय गृष्टि- धेनु-वशा-वेहद्वष्कयणी- प्रवक्तृ-श्रोत्रिय - अध्यापक - धूर्तेः ३ । ३ जाति:१।१ ।
सo - पोटा च युवतिश्च स्तोकश्च कतिपयं च गृष्टिश्च धेनुश्च वशा च वेहच्च वष्कयणी च प्रवक्ता च श्रोत्रियश्च अध्यापकश्च धूर्तश्च ते - पोटा०धूर्ता:, तै:- पोटा०धूर्तेः (इतरेतरयोगद्वन्द्वः) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org