________________
३४६
पाणिनीय-अष्टाध्यायी-प्रवचनम् उदा०-(सत) सच्चासौ पुरुष इति सत्पुरुषः । सज्जन। (महत्) महाँश्चासौ पुरुष इति महापुरुषः। महान् पुरुष। (परम) परमश्चासौ पुरुष इति परमपुरुषः । परमपुरुष परमात्मा। (उत्तम) उत्तमश्चासौ पुरुष इति उत्तमपुरुष: । श्रेष्ठ पुरुष। (उत्कृष्ट) उत्कृष्टश्चासौ पुरुष इति उत्कृष्टपुरुषः । बढ़िया पुरुष।
___ सिद्धि-सत्पुरुषः । सत्+सु+पुरुष+सु । सत्पुरुष+सु । सत्पुरुषः । ऐसे ही- महापुरुषः' आदि। पूज्यमानम्
(१४) वृन्दारकनागकुञ्जरैः पूज्यमानम्।६२। प०वि०-वृन्दारक-नाग-कुञ्जरैः ३।३ पूज्यमानम् १।१ ।
स०-वृन्दारकश्च नागश्च कुञ्जरश्च ते-वृन्दारकनागकुञ्जरा:, तै:-वृन्दारकनागकुञ्जरैः (इतरेतरयोगद्वन्द्वः) ।
अनु०-'समानाधिकरणेन' इत्यनुवर्तते।
अन्वयः-पूज्यमानं सुप् समानाधिकरणैर्वृन्दारकनागकुञ्जरैः सुभिः सह विभाषा समास: कर्मधारयतत्पुरुषः ।
अर्थ:-पूज्यमानवाचि सुबन्तं समानाधिकरणैर्वृन्दारकनागकुञ्जरैः समर्थः सुबन्तै: सह विकल्पेन समस्यते, कर्मधारयतत्पुरुषश्च समासो भवति।
उदा०-(वृन्दारक:) गौश्चासौ वृन्दारक इति गोवृन्दारकः । अश्वश्चासौ वृन्दारक इति अश्ववृन्दारकः । (नाग:) गौश्चासौ नाग इति गोनाग: । अश्वश्चासौ नाग इति अश्वनाग: । (कुञ्जर:) गौश्चासौ कुञ्जर इति गोकुञ्जरः। अश्वश्चासौ कुञ्जर इति अश्वकुञ्जरः।
आर्यभाषा-अर्थ-(पूज्यमानम्) पूज्यमानवाची सुबन्त का (समानाधिकरणेन) समान अधिकरणवाले (वृन्दारकनागकुञ्जरैः) वृन्दारक, नाग और कुञ्जर समर्थ सुबन्तों के साथ (विभाषा) विकल्प से समास होता है और उसकी (तत्पुरुषः) कर्मधारयतत्पुरुष संज्ञा होती है।
उदा०-(वन्दारक) गौश्चासौ वन्दारक इति गोवन्दारकः । श्रेष्ठ बैल। अश्वश्चासौ वृन्दारक इति अश्ववृन्दारकः । श्रेष्ठ घोड़ा। (नाग) गौश्चासौ नाग इति गोनागः । श्रेष्ठ बैल। अश्वश्चासौ नाग इति अश्वनागः । श्रेष्ठ घोड़ा। (कुञ्जर) गौश्चाासौ कुञ्जर इति गोकुञ्जरः। श्रेष्ठ बैल। अश्वश्चासौ कुञ्जर इति अश्वकुञ्जरः। श्रेष्ठ घोड़ा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org