________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
आर्यभाषा - अर्थ - (विशेषणम्) विशेषणवाची सुबन्त का ( समानाधिकरणेन) समान अधिकरणवाले (विशेष्येण) विशेष्यवाची समर्थ सुबन्त के साथ ( बहुलम् ) व्यवस्थापूर्वक समास होता है और उसकी ( तत्पुरुषः) कर्मधारयतत्पुरुष संज्ञा होती है।
३४२
उदा० - नीलं च तदुत्पलमिति नीलोत्पलम् । नीला कमल। रक्तं च तदुत्पलमिति रक्तोत्पलम् | लाल कमल ।
यहां बहुल-वचन से कहीं नित्य समास होता है- कृष्णसर्पः । काला सांप | लोहितशालि: । लाल चावल । कहीं समास नहीं होता है- रामो जामदग्न्यः । जगदग्नि का पुत्र राम । अर्जुन: कार्तवीर्यः । कृतवीर्य का पुत्र अर्जुन। कहीं समास का विकल्प होता है जैसा कि उदाहरण में दर्शाया है। यहां बहुल वचन समास - व्यवस्था के लिये है ।
सिद्धि-नीलोत्पलम् । नील+सु+उत्पल+सु । नीलोत्पल+सु । नीलोत्पलम् । यहां विशेषणवांची नील शब्द का विशेष्यवाची उत्पल शब्द साथ कर्मधारयतत्पुरुष समास किया गया है। ऐसे ही- 'रक्तोत्पलम्' आदि ।
पूर्वादयः
(१०) पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च । ५८ ।
प०वि०-पूर्व-अपर-प्रथम- चरम - जघन्य-समान-मध्य-मध्यमवीरा: १ । ३ च अव्ययपदम् ।
सo - पूर्वश्च अपरश्च प्रथमश्च चरमश्च जघन्यश्च समानश्च मध्यश्च मध्यमश्च वीरश्च ते - पूर्व०वीरा: (इतरेतरयोगद्वन्द्वः) ।
अनु० - 'समानाधिकरणेन' इत्यनुवर्तते ।
अन्वयः - पूर्व० वीराश्च सुपः समानाधिकरणेन सुपा सह विभाषा समासः कर्मधारयतत्पुरुषः ।
अर्थ:- पूर्वादयः सुबन्ताः समानाधिकरणवाचिना समर्थेन सुबन्तेन सह विकल्पेन समस्यन्ते, समासश्च कर्मधारयतत्पुरुषो भवति ।
।
उदा०- ( पूर्व ) पूर्वश्चासौ पुरुष इति पूर्वपुरुषः । (अपर: ) अपरश्चासौ पुरुष इति अपरपुरुषः । ( प्रथम ) प्रथमश्चासौ पुरुष इति प्रथमपुरुषः । (चरम:) चरमश्चासौ पुरुष इति चरमपुरुषः । ( जघन्यः) जघन्यश्चासौ पुरुष इति जधन्यपुरुषः । (समान:) समानश्चासौ पुरुष इति समानपुरुषः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org