________________
द्वितीयाध्यायस्य प्रथमः पादः
३४१ अर्थ:-उपमितवाचि सुबन्तं समानाधिकरणैर्व्याघ्रादिभि: समर्थैः सुबन्तै: सह विकल्पेन समस्यते, यदि तत्र सामान्यवाचिशब्दस्य प्रयोगो न भवति, कर्मधारयतत्पुरुषश्च समासो भवति ।
उदा०-पुरुषोऽयं व्याघ्र इव इति पुरुषव्याघ्र: । पुरुषोऽयं सिंह इव इति पुरुषसिंह: । सामान्यवाचिशब्दप्रयोगे समासो न भवति-पुरुषोऽयं व्याघ्र इव शूरः।
आर्यभाषा-अर्थ-(उपमितम्) उपमेयवाची सुबन्त का (समानाधिकरणेन) समान-अधिकरणवाले (व्याघ्रादिभिः) व्याघ्र आदि समर्थ सुबन्तों के साथ (विभाषा) विकल्प से समास होता है, यदि वहां सामान्यवाची शब्द का प्रयोग न हो और उसकी (तत्पुरुषः) कर्मधारयतत्पुरुष संज्ञा होती है।
उदा०-पुरुषोऽयं व्याघ्र इव इति पुरुषव्याघ्रः। बाघ (चीता) के समान शूर पुरुष। 'शार्दूलद्वीपिनौ व्याघ्र इत्यमरः । पुरुषोऽयं सिंह इव इति पुरुषसिंह: । शेर के समान वीर पुरुष।
सिद्धि-पुरुषव्याघ्रः । पुरुष+सु+व्याघ्र+सु। पुरुषव्याघ्र+सु। पुरुषव्याघ्रः ।
यहां पुरुष शब्द उपमेयवाची है उसके व्याघ्र शब्द के साथ कर्मधारयतत्पुरुष समास किया गया है। ऐसे ही-पुरुषसिंहः । विशेषणम्
(६) विशेषणं विशेष्येण बहुलम्।५७ । प०वि०-विशेषणम् १।१ विशेष्येण ३।१ बहुलम् १।१ । अनु०-'समानाधिकरणेन' इत्यनुवर्तते।
अर्थ:-विशेषणवाचि सुबन्तं समानाधिकरणेन विशेष्यवाचिना समर्थन सुबन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति।
__ उदा०-नीलं च तद् उत्पलमिति नीलोत्पलम्। रक्तं च तद् उत्पलमिति रक्तोत्पलम्।
अत्र बहुलवचनात् क्वचिन्नित्यसमासो भवति-कृष्णसर्पः । लोहितशालिः। क्वचित् समासो न भवति-रामो जामदग्न्यः। अर्जुन: कार्तवीर्य: । क्वचित् समासविकल्पो भवति-नीलमुत्पलमिति नीलोत्पलम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org