________________
द्वितीयाध्यायस्य प्रथमः पादः
३३५
उदा०-(दिक्) पूर्वा चेयम् इषुकामशमी इति पूर्वेषुकामशमी । अपरा चेयम् इषुकामशमी इति अपरेषुकामशमी । (संख्या) पञ्च च ते जना इति पञ्चजना: । सप्त च ते ऋषय इति सप्तर्षयः ।
आर्यभाषा - अर्थ - (दिक्संख्ये) दिशावाची और संख्यावाची सुबन्त का (समानाधिकरणेन) समान अधिकरणवाची समर्थ सुबन्त के साथ (विभाषा) विकल्प से समास होता है (संज्ञायाम् ) संज्ञा विषय में और उसकी (तत्पुरुषः) कर्मधारयतत्पुरुष संज्ञा होती है।
उदा०- (दिक्) पूर्वा चेयम् इषुकामशमी इति पूर्वेषुकामशमी । इषुकामशमी नगरी की पूर्व दिशा । अपरा चेयम् इषुकामशमी इति अपरेषुकामशमी । इषुकामशमी नगरी की पश्चिम दिशा । (संख्या) पञ्च च ते जना इति पञ्चजना: । पांच जन (ब्राह्मण, क्षत्रिय, वैश्य, शूद्र और निषाद ) । सप्त च ते ऋषय इति सप्तर्षयः । सात गोत्रकर्त्ता ऋषि ( जमदग्नि, गोतम, भरद्वाज, कश्यप, वसिष्ठ, अगस्त्य, विश्वामित्र ) । सिद्धि - पूर्वेषुकाशमी । पूर्वा+सु । इषुकामशमी + सु । पूर्वेषुकामशमी। ऐसे ही- 'पञ्चजना:' आदि ।
दिक् संख्या च
(३) तद्धितार्थोत्तरपदसमाहारे च । ५१ । प०वि०-तद्धितार्थ- उत्तरपद- समाहारे ७ । १ च अव्ययपदम् ।
० तद्धितस्यार्थ इति तद्धितार्थः । तद्धितार्थश्च उत्तरपदं च समाहारश्च एतेषां समाहारः, तद्धितार्थोत्तरपदसमाहारम्, तस्मिन्तद्धितार्थोत्तरपदसमाहारे (षष्ठीतत्पुरुषगर्भितसमाहारद्वन्द्वः) ।
अनु०-दिक्संख्ये, समानाधिकरणेन इति चानुवर्तते ।
अन्वयः - तद्धितार्थोत्तरपदसमाहारे च दिक्संख्ये सुपौ समानाधिकरणेन सुपा सह विभाषा समासस्तत्पुरुषः ।
अर्थ :- तद्धितार्थे विषये, उत्तरपदे परतः समाहारे चाभिधेये दिग्वाचि संख्यावाचि च सुबन्तं समानाधिकरणवाचिना समर्थेन सुबन्तेन सह विकल्पेन समस्यते, समासश्च तत्पुरुषो भवति ।
उदा०-तद्धितार्थे (दिक्) पूर्वस्यां शालायां भव:- पौर्वशाल: । अपरस्यां शालायां भव:-आपरशालः । (संख्या) पञ्चानां नापितानामपत्यम्
Jain Education International
"
For Private & Personal Use Only
www.jainelibrary.org