________________
द्वितीयाध्यायस्य प्रथमः पादः
३३३
आर्यभाषा - अर्थ - (पात्रेसम्मितादयः) 'पात्रेसम्मिताः' इत्यादि समुदाय (च) ही (सप्तमी) सप्तम्यन्त निपातित किये जाते हैं (क्षेपे) निन्दा अर्थ में और वह ( तत्पुरुषः ) तत्पुरुष समास होता है।
उदा० - पात्रेसम्मिता: । यहां पात्र का अभिप्राय भोजन-पात्र है। जो भोजनकाल में ही सम्मिलित होते हैं, अन्य किसी कार्य में नहीं । पात्रेबहुलाः । जो भोजनकाल में ही अधिकतर उपस्थित रहते हैं।
सिद्धि - पात्रेसम्मिताः । पात्र + ङि+सम्मित+जस् । पात्रेसम्मिताः । यहां निपातन से सप्तमी विभक्ति का अलुक् होता है। ऐसे ही- 'पात्रेबहुला : ' आदि ।
समानाधिकरणतत्पुरुषः ( कर्मधारयः )
पूर्वादय:
(१) पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन । ४६ ।
प०वि०-पूर्वकाल-एक-सर्व- जरत्-पुराण-नव - केवलाः १ । ३ समानाधिकरणेन ३ |१ ।
स०- पूर्वकालश्च एकश्च सर्वश्च जरत् च पुराणश्च नवश्च केवलश्च ते - पूर्वकाल० केवला : ( इतरेतरयोगद्वन्द्वः) । समानम् अधिकरणं यस्य सः - समानाधिकरण:, तस्मिन् समानाधिकरणे ( बहुव्रीहि: ) ।
अनु०-सुप्, सह सुपा इति च पूर्ववदनुवर्तते ।
अन्वयः-पूर्व०केवलाः सुपः समानाधिकरणेन सुपा सह विभाषा समास: कर्मधारयतत्पुरुषः ।
अर्थ:- पूर्वकालवाचिन एकसर्वजरत्पुराणनवकेवलाः सुबन्ताः समानाधिकरणेन समर्थेन सुबन्तेन सह विकल्पेन समस्यन्ते समासश्च कर्मधारयतत्पुरुषोः भवति ।
उदा०- (पूर्वकालवाचिन:) स्नातश्वासौ अनुलिप्तश्चेति स्नातानुलिप्तो ब्राह्मणः । कृष्टं च तत् समीकृतं चेति कृष्टसमीकृतं क्षेत्रम् । (एकः) एका चेयं शाटी इति एकशाटी । ( सर्व:) सर्वे च ते देवा इति सर्वदेवा: । (जरत्) जरत् चासौ हस्तीति जरदहस्ती । ( पुराण:) पुराणं च तदन्नमिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org