________________
३३१
द्वितीयाध्यायस्य प्रथमः पादः तत्र-शब्दः
(६) तत्र।४६। प०वि०-तत्र अव्ययम्। अनु०-'सप्तमी, क्तेन इति चानुवर्तते। अन्वय:-तत्र सप्तमी सुप् क्तेन सुपा सह विभाषा समासस्तत्पुरुषः ।
अर्थ:-तत्र' इति सप्तम्यन्तं सुबन्तं क्त-प्रत्ययान्तेन समर्थेन सुबन्तेन सह विकल्पेन समस्यते, तत्पुरुषश्च समासो भवति। . उदा०-(तत्र) तत्र भुक्तमिति तत्रभुक्तम् । तत्र कृतमिति तत्रकृतम्। समासपक्षे ऐकपद्यमैकस्वर्यं च भवति।
आर्यभाषा-अर्थ-(तत्र) 'तत्र' इस (सप्तमी) सप्तमी-अन्त सुबन्त का (क्तेन) क्त-प्रत्ययान्त समर्थ सुबन्त के साथ (विभाषा) विकल्प से समास होता है और उसकी (तत्पुरुषः) तत्पुरुष संज्ञा होती है।
__उदा०-तत्र भुक्तमिति तत्रभुक्तम् । वहां खाया हुआ। तत्र कृतमिति तत्रकृतम्। वहां किया हुआ। समास पक्ष में दोनों पदों का एक पद और एक स्वर हो जाता है।
सिद्धि-तत्रभुक्तम् । भुज्+क्त। भुक्त। तत्र+कि+भुक्त+सु। तत्र+भुक्त+सु । तत्रभुक्त। यहां प्रथम 'भुज् पालनाभ्यवहारयोः' (रु०आ०) धातु से क्त-प्रत्यय, तत्पश्चात् तत्र' शब्द का क्त-प्रत्ययान्त भुक्त शब्द के साथ समास होता है। ऐसे ही-तत्रकृतम् । सप्तमी
(७) क्षेपे।४७। प०वि०-क्षेपे ७१। अनु०-'सप्तमी, क्तेन इति चानुवर्तते । अन्वय:-सप्तमी सुप् क्तेन सुपा सह विभाषा समास: क्षेपे तत्पुरुषः ।
अर्थ:-सप्तम्यन्तं सुबन्तं क्त-प्रत्ययान्तेन समर्थेन सुबन्तेन सह विकल्पेन समस्यते, क्षेपे गम्यमाने तत्पुरुषश्च समासो भवति ।
उदा०-अवतप्ते नकुलस्थितमिति अवतप्तेनकुलस्थितं त एतत् । अत्र क्षेपोऽयम्-यथाऽवतप्ते नकुला न चिरं स्थातारो भवन्त्येवं कार्याण्यारभ्य यो न चिरं तिष्ठति स उच्यते-अवतप्तेनकुलस्थितं त एतदिति। उदके
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org