________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
अर्थः-पञ्चम्यन्तं सुबन्तं भयशब्देन समर्थेन सुबन्तेन सह विकल्पेन समस्यते तत्पुरुषश्च समासो भवति ।
उदा०-(भयम्) चौराद् भयमिति चौरभयम् । वृकेभ्यो भयमिति वृकभयम् ।
आर्यभाषा - अर्थ - (पञ्चमी) पञ्चमी - अन्त सुबन्त का ( भयेन ) भय शब्द समर्थ सुबन्त के साथ (विभाषा) विकल्प से समास होता है और उसकी (तत्पुरुषः ) तत्पुरुष संज्ञा होती है।
३२४
उदा०-(भय) चौराद् भयमिति चौरभयम् । चोर से डर । वृकेभ्यो भयमिति वृकभयम् । भेड़ियों से डर ।
सिद्धि-चौरभयम् । चौर+भ्यस्+भय+सु । चौरभय+सु । चौरभयम् । ऐसे ही-वृकभयम् ।
पञ्चमी
(२) अपेतापोढमुक्तपतितापत्रस्तैरल्पशः । ३८ । प०वि०- अपेत-अपोढ - मुक्त - पतित- अपत्रस्तैः ३ | ३ अल्पशः अव्ययपदम् ।
स०-अपेतश्च अपोढश्च मुक्तश्च पतितश्च अपत्रस्तश्च ते - अपेत० अपत्रस्ताः, तै: - अपेत० अपत्रस्तै: ( इतरेतरयोगद्वन्द्वः ) ! अनु० - 'पञ्चमी' इत्यनुवर्तते ।
अन्वयः-पञ्चम्यन्तं सुबन्तम् अपेतादिभिः समर्थे: सुबन्तैः सह विकल्पेनाल्पशः समस्यते, तत्पुरुषश्च समासो भवति ।
उदा०- ( अपेतः) सुखादपेत इति सुखापेतः । ( अपोढः ) कल्पनाया अपोढ इति कल्पनापोढः । (मुक्तः ) चक्रात् मुक्त इति चक्रमुक्त: । ( पतितः ) पर्वतात् पतित इति पर्वतपतितः । ( अपत्रस्तः ) तरङ्गेभ्योऽपत्रस्त इति
तरङ्गापत्रस्त: ।
अत्र 'अल्पश:' इति समासस्याल्पविषयतां कथयति । अल्पा पञ्चमी समस्यते, न सर्वा। यथा - प्रासादात् पतितः । भोजनादपत्रस्त इति अत्र समासो न भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org