________________
द्वितीयाध्यायस्य प्रथमः पादः
३१३
से 'राजाहस्सखिभ्यष्टच्' (५।४ ।९१) से समासान्त टच् प्रत्यय होता है । स्त्रीलिङ्ग की विवक्षा में 'टिड्ढाणञ्' (४/१/१५) से ङीप् प्रत्यय होता है। ऐसे ही दशराजी ।
द्वितीयातत्पुरुषः(१) द्वितीया
श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः । २४ ।
प०वि० - द्वितीया १।१ श्रित- अतीत - पतित-गत- अत्यस्त-प्राप्तआपन्नैः ३ । ३ ।
स० - श्रितश्च अतीतश्च प्राप्तश्च आपन्नश्च ते श्रित० आपन्नाः, तैः श्रित० आपन्नैः (इतरेतरयोगद्वन्द्वः) ।
अन्वयः - द्वितीया सुप् श्रित० आपन्नैः सुभिः सह विभाषा समासस्तत्पुरुषः ।
अर्थ:- द्वितीयान्तं सुबन्तं श्रितादिभिः समर्थै: सुबन्तैः सह विकल्पेन समस्यते तत्पुरुषश्च समासो भवति ।
उदा०-(
- (श्रितः) कष्टं श्रित इति कष्टश्रितः । ( अतीतः ) कान्तारम् अतीत इति कान्तारातीतः । ( पतितः ) नरकं पतित इति नरकपतितः । ( गतः ) ग्रामं गत इति ग्रामगत: । ( अत्यस्तः ) तरङ्गान् अत्यस्त इति तरङ्गात्यस्त: । ( प्राप्त:) सुखं प्राप्त इति सुखप्राप्त: । ( आपन्नः ) सुखम् आपन्न इति सुखापन्नः।
आर्यभाषा- अर्थ - (द्वितीया ) द्वितीयान्त सुबन्त का ( श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः ) श्रित, अतीत, पतित, गत, अत्यस्त, प्राप्त और आपन्न इन समर्थ सुबन्तों के साथ (विभाषा) विकल्प से समास होता है और उसकी (तत्पुरुषः) तत्पुरुष संज्ञा होती है।
उदा०- ( श्रित) कष्टं श्रित इति कष्टश्रितः । कष्ट को प्राप्त हुआ। ( अतीत ) कान्तारम् अतीत इति कान्तारातीतः । जङ्गल को लांघा हुआ। (पतित ) नरकं पतित इति नरकपतितः । नरक में गिरा हुआ। (गत) ग्रामं गत इति ग्रामगत: । गांव को गया हुआ। (अत्यस्त) तरङ्गान् अत्यस्त इति तरङ्गात्यस्तः । तरङगों में फंसा हुआ । ( प्राप्त) सुखं प्राप्त इति सुखप्राप्तः । सुख को प्राप्त हुआ। (आपन्न) सुखम् आपन्न इति सुखापन्नः । सुख को पाया हुआ ।
सिद्धि-कष्टश्रितः । कष्ट+अम् + श्रित+सु । कष्टश्रित+सु । कष्टश्रितः । ऐसे ही- 'कान्तारातीत:' आदि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org