________________
३०६
पाणिनीय-अष्टाध्यायी-प्रवचनम् अन्वय-आभिमुख्येऽभिप्रती सुपौ लक्षणेन सुपा सह विभाषा समासोऽव्ययीभावः।
अर्थ:-आभिमुख्येऽर्थे वर्तमानौ, अभिप्रती सुबन्तौ लक्षणभूतेन समर्थन सुबन्तेन सह विकल्पेन समस्येते, अव्ययीभावश्च समासो भवति । लक्षणम् चिह्नम्।
उदा०-(अभि:) अग्निम् अभीति-अभ्यग्नि । अभ्यग्नि शलभाः पतन्ति । अग्निम् अभि शलभाः पतन्ति । (प्रति:) अग्नि प्रतीति-प्रत्यग्नि। प्रत्यग्नि शलभा: पतन्ति । अग्नि प्रति शलभाः पतन्ति । अग्निं लक्ष्यीकृत्य शलभा: पतन्तीत्यर्थः ।
आर्यभाषा-अर्थ-(आभिमुख्ये) सामने अर्थ में वर्तमान (अभिप्रती) अभि और प्रति (सुप्) सुबन्तों का (लक्षणेन) चिह्न बने हुये (सुपा) समर्थ सुबन्त के (सह) साथ (समास:) समास होता है और उसकी (अव्ययीभाव:) अव्ययीभाव संज्ञा होती है।
उदा०-(अभि) अग्निम् अभीति-अभ्यग्नि । अभ्यग्नि शलभाः पतन्ति । अग्नि को अभिमुख करके पतङ्ग गिरते हैं। यहां अव्ययीभाव समास होगया। अग्निम् अभि शलभाः पतन्ति । अर्थ पूर्ववत् है। यहां अव्ययीभाव समास नहीं हुआ। (प्रति) अग्नि प्रतीति-प्रत्यग्नि । प्रत्यग्नि शलभा: पतन्ति । अग्नि को अभिमुख करके पतङ्ग गिरते हैं। यहां अव्ययीभाव समास होगया। अग्नि प्रति शलभाः पतन्ति । अर्थ पूर्ववत् है। यहां अव्ययीभाव समास नहीं हुआ। अनु:
(११) अनुर्यत्समया ।१५। प०वि०-अनु: १।१ यत्समया अव्ययपदम् । स०-यस्य समया इति सत्समया (षष्ठीतत्पुरुषः) । अनु०-'लक्षणेन सुप् सुपा सह अव्ययीभावः' इत्यनुवर्तते।
अन्वयः-अनुः सुप् यत्समया लक्षणेन सुपा सह विभाषा समासोऽव्ययीभावः।
अर्थ:-अनु: सुबन्तो यस्य समीपवाची तेन लक्षणभूतेन समर्थेन सुबन्तेन सह विकल्पेन समस्यते, अव्ययीभावश्च समासो भवति । समया समीपम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org