________________
द्वितीयाध्यायस्य प्रथमः पादः
विभक्ति०साकल्यान्तवचना:, तेषु - विभक्ति० साकल्यान्तवचनेषु (इतरेतरयोग
द्वन्द्वगर्भितबहुव्रीहिः) ।
अनु०-‘सुप् सुपा सह, अव्ययीभावः' इत्यनुवर्तते ।
अन्वयः - विभक्ति० अन्तवचनेषु अव्ययं सुप् सुपा सह समासोऽव्ययीभावः ।
२६७
अर्थ:-विभक्ति-आदिष्वर्थेषु यदव्ययं सुबन्तं वर्तते तत् समर्थेन सुबन्तेन सह समस्यते, अव्ययीभावश्च समासो भवन्ति । अत्र वचनशब्दः प्रत्येकमभिसम्बध्यते ।
उदा०-(१) विभक्तिवचने । स्त्रीष्वधिकृत्येति अधिस्त्रि । कुमारीष्वधिकृत्येति अधिकुमारि । सप्तम्यर्थे यद् अव्ययं तद् विभक्तिवचनम् । (२) समीपवचने। गुरुकुलस्य समीपमिति उपगुरुकुलम् ।
(३) समृद्धिवचने । मद्राणां समृद्धिरिति सुमद्रम् । मगधानां समृद्धिरिति सुमगधम्। समृद्धिः-ऋद्धेराधिक्यम् ।
(४) व्यृद्धिवचने । यवनानां व्यृद्धिरिति दुर्यवनम् । व्यृद्धिः = ऋद्धेरभावः ।
(५) अर्थाभाववचने । मक्षिकाणाभाव इति निर्मक्षिकम् । अर्थाभावः=वस्तुनोऽभावः ।
(६) अत्ययवचने। अतीतानि हिमानीति निर्हिमम् । अत्ययः=भूतत्वम्, अतिक्रमः ।
(७) असम्प्रतिवचने । तैसृकं सम्प्रति न युज्यते इति अतितैसृकम् । तैसृकं नाम आच्छादनं, तस्यायमुपभोगकालो नास्तीत्यर्थः ।
(८) शब्दप्रादुर्भाववचने । पाणिनिशब्दस्य प्रकाश इति इतिपाणिनि । शब्दप्रादुर्भावः :- शब्दस्य प्रकाशता । पाणिनिशब्दो लोके प्रकाशत इत्यर्थः । (९) पश्चाद्वचने । रथानां पश्चादिति अनुरथं पादातम् । (१०) यथावचने । यथा शब्दस्य योग्यता, वीप्सा, पदार्थानतिवृत्तिः सादृश्यं चेति चत्वारोऽर्थाः । तत्र योग्यतायाम् रूपस्य योग्यमिति अनुरूपम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org