SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २६६ साक्षादादयः पाणिनीय-अष्टाध्यायी-प्रवचनम् (१५) साक्षात्प्रभृतीनि च । ७४ । प०वि०-साक्षात् प्रभृतीनि १ । ३ च अव्ययपदम् । स०-साक्षात् प्रभृति येषां तानीमानि - साक्षात्प्रभृतीनि (बहुव्रीहि: ) । अनु०-'विभाषा कृत्रि, गति:' इत्यनुवर्तते । अन्वयः - साक्षात्प्रभृतीनि च निपाता: कृञि विभाषा गतिः । अर्थः-साक्षात्-प्रभृतीनि निपातरूपाणि च कृञ्योगे विकल्पेन गतिसंज्ञकानि भवन्ति । उदा०-साक्षात्कृत्य। साक्षात् कृत्वा । मिथ्याकृत्य । मिथ्याकृत्वा, इत्यादिकम् । साक्षादादिगण:-साक्षात् । मिथ्या । चिन्ता । भद्रा । लोचना | विभाषा । सम्पत्का। आस्था । अमा। श्रद्धा । प्राजर्या । प्राजरुहा । वीजर्या । वीजरुहा । संसर्या I अर्थे। लवणम्। उष्णम् । शीतम् । उदकम् । आर्द्रम् । गतिसंज्ञासंयोगेन लवणादीनां मकारान्तत्वं निपात्यते । अग्नौ । वशे । विकम्पने। विहसने। प्रहसने । प्रतपने । प्रादुस् । नमस्। आविस्। इति साक्षात्प्रभृतीनि । आर्यभाषा - अर्थ - ( साक्षात्प्रभृतीनि ) साक्षात् आदि निपातों की (च) भी (कृषि) कृञ् धातु के योग में (विभाषा) विकल्प से (गतिः) गति संज्ञा होती है। उदा०-साक्षात्कृत्य । साक्षात् कृत्वा । अप्रत्यक्ष को साक्षात् करके। मिथ्याकृत्य । मिथ्याकृत्वा । सत्य को मिथ्या बनाकर । उरसि-मनसी (१६) अनत्याधान उरसिमनसी । ७५ । प०वि० - अनत्याधाने ७ । १ उरसि - मनसी १ । २ । स०-अत्याधानम्=उपश्लेषणम् । न अत्याधानम् इति अनत्याधानम्, तस्मिन्-अनत्याधाने (नञ्तत्पुरुषः) । उरसिश्च मनसिश्च तौ-उरसिमनसी (इतरेतरयोगद्वन्द्वः) । अनु०- 'विभाषा कृञि, गतिः' इत्यनुवर्तते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy