________________
कणे-मनसी
भवतः ।
प्रथमाध्यायस्य चतुर्थः पादः
(७) कणे - मनसी श्रद्धाप्रतीघाते । ६६ ।
पं०वि० - कणे - मनसी १ । २ श्रद्धाप्रतीघाते ७ । १ । स०-कणे च मनश्च ते कणेमनसी (इतरेतरयोगद्वन्द्वः ) | श्रद्धायाः प्रतीघात इति श्रद्धाप्रतीघातः, तस्मिन् श्रद्धाप्रतीघाते ( षष्ठीतत्पुरुषः ) । अनु० - 'क्रियायोगे गतिः' इत्यनुवर्तते ।
अन्वयः - श्रद्धाप्रतीघाते कणेमनसी निपातौ क्रियायोगे गतिः । अर्थ:-श्रद्धाप्रतीघातेऽर्थे कणे - मनसी निपातौ क्रियायोगे गतिसंज्ञकौ
उदा०
- (कणे) कणेहत्य पयः पिबति । (मनः ) मनोहत्य पयः पिबति । तावत् पिबति यावदस्याऽभिलाषो निवृत्तो भवति, श्रद्धा प्रतिहता भवतीत्यर्थः ।
२६१
आर्यभाषा-अर्थ- (श्रद्धाप्रतिघाते) इच्छा के समाप्त होने अर्थ में (कणेमनसी) कणे और मनस् निपात की (क्रियायोगे) क्रिया के योग में (गतिः) गति संज्ञा होती है ।
- उदा०- - (कणे) देवदत्तः कणेहत्य पयः पिबति । देवदत्त तीव्र अभिलाषा की निवृत्ति तक दूध पीता है। (मनः) देवदत्तो मनोहत्य पयः पिबति । देवदत्त मन की अभिलाषा-निवृत्ति तक दूध पीता है। खूब छककर दूध पीता है।
'श्रद्धाप्रतिघाते का कथन इसलिये किया गया है कि यहां गति संज्ञा न हो-कणे हत्वा गत: । वह अपनी तीव्र अभिलाषा को मारकर चला गया। मनो हत्वा गतः । वह मन को मरकर चला गया।
पुरः
(८) पुरोऽव्ययम् । ६७ ।
प०वि०-पुरः अव्ययपदम्। अव्ययपदम् १।१ । अनु० - 'क्रियायोगे गतिः' इत्यनुवर्तते । अन्वयः - अव्ययं पुरो निपातः क्रियायोगे गतिः। अर्थ:- अव्ययं पुरो निपातः क्रियायोगे गति-संज्ञको भवति । उदा०-पुरस्कृत्य । पुरस्कृतम् । यत् पुरस्करोति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org