________________
२१३
प्रथमाध्यायस्य चतुर्थः पादः
२१३ नदीसंज्ञाप्रतिषेधः
___(२) नेयडुवथानावस्त्री।४। प०वि०-न अव्ययपदम् । इयङ्-उवङ्स्थानौ १।२ अस्त्री ११
स०-इयङ् च उवङ् च तौ इयडुवडौ, तयो:-इयडुवङो: । इयडुवङो: स्थानमनयोरिति-इयडुवङ्स्थानौ (इतरेतरयोगद्वन्द्वगर्भितबहुव्रीहि:)। न स्त्रीति-अस्त्री (नञ्तत्पुरुषः)।
अनु०-'यू स्त्र्याख्यौ नदी' इत्यनुवर्तते । अन्वयः-इयडुवङ्स्थानौ स्त्र्याख्यौ यू नदी न अस्त्री।
अर्थ:-इयङ्-उवङ्स्थानौ, स्त्री-आख्यौ, ईकारान्त-ऊकारान्तौ शब्दौ नदी-संज्ञकौ न भवत:, स्त्रीशब्दं वर्जयित्वा।
उदा०-(ईकारान्तम्) हे श्री: । (ऊकारान्तम्) हे भ्रूः। अस्त्रीति किमर्थम् ? हे स्त्रि।
___ आर्यभाषा-अर्थ-(इयङ्-उवस्थानौ) इयड और उवङ् आदेश का स्थान रखनेवाले (यू) ईकारान्त और ऊकारान्त शब्द की नदी संज्ञा (न) नहीं होती है।
उदा०-(इकारान्त) हे श्रीः। (ऊकारान्त) हे भ्रूः।
यहां नदी संज्ञा न होने से सम्बोधन में 'अम्बार्थनद्योर्हस्व:' (७।३।१०७) से ई और ऊ को ह्रस्व नहीं होता है। 'स्त्री' शब्द की नदी संज्ञा होने से उसे ह्रस्व हो जाता है-हे स्त्रि। नदीसंज्ञा-विकल्प:
(३) वाऽऽमि।५। प०वि०-वा अव्ययपदम्। आमि ७।१। अनु०-'यू स्त्र्याख्यौ नदी, इयडुवङ्स्थानावस्त्री' इत्यनुवर्तते। अन्वय:-इयडुवङ्स्थानौ स्त्र्याख्यौ यू वा नदी आमि अस्त्री।
अर्थ:-इयङ्-उवङ्स्थानौ स्त्री-आख्यौ ईकारान्त-ऊकारान्तौ शब्दौ विकल्पेन नदीसंज्ञकौ भवतः, आमि प्रत्यये परत:, स्त्रीशब्दं वर्जयित्वा ।
___ उदा०-ईकारान्त:-(श्री:) श्रियाम्, श्रीणाम्। ऊकारान्त:-(भ्रूः) भ्रुवाम्, भ्रूणाम् । अस्त्रीति किमर्थम् ? स्त्रीणाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org