________________
१७४
पाणिनीय-अष्टाध्यायी-प्रवचनम् . (३७) व्यक्तवाचां समुच्चारणे।४८। प०वि०-व्यक्तवाचाम् ६३ समुच्चारणे ७१।
स०-व्यक्ता वाचो येषां ते व्यक्तवाच:, तेषाम्-व्यक्तवाचाम् (बहुव्रीहि:)।
अनु०-'वदः' इत्यनुवर्तते। अन्वय:-व्यक्तवाचां समुच्चारणे वद: कर्तरि आत्मनेपदम्।
अर्थ:-व्यक्तवाचाम् मनुष्याणां समुच्चारणे सहोच्चारणेऽर्थे वर्तमानाद् वद-धातो: कर्तरि आत्मनेपदम् भवति। .
उदा०-सम्प्रवदन्ते ब्राह्मणा:। सम्प्रवदन्ते क्षत्रिया:। मिलित्वा वेदमन्त्रादिकमुच्चारयन्तीत्यर्थः ।
आर्यभाषा-अर्थ-(व्यक्तवाचाम्) व्यक्तवाणीवाले मनुष्यों के (समुच्चारणे) साथ उच्चारण करने अर्थ में विद्यमान (वद:) वद् धातु से (कतीरे) कर्तृवाच्य में (आत्मनेपदम्) आत्मनेपद होता है।
उदा०-सम्प्रवदन्ते ब्राह्मणाः । ब्राह्मण मिलकर मन्त्रोच्चारण करते हैं। सम्प्रवदन्ते क्षत्रिया: । क्षत्रिय मिलकर मन्त्रोच्चारण करते हैं।
सिद्धि-सम्प्रवदन्ते। सम+प्र+व+लट् । सम्+प्र+व+शप्+झ। सम्+प्र+व+ अ+अन्ते। सम्प्रवदन्ते। यहां सम्-प्र उपसर्गपूर्वक मनुष्यों के समुच्चारण अर्थ में वद् धातु से लट् प्रत्यय और उसके स्थान में आत्मनेपद में झ-आदेश होता है। झोऽन्तः' (७।१।३) से 'झ' के स्थान में अन्त आदेश होता है।
(३८) अनोरकर्मकात्।४६ । प०वि०-अनो: ५।१ अकर्मकात् ५।१
स०-न विद्यते कर्म यस्य सः-अकर्मक:, तस्मात्-अकर्मकात् (बहुव्रीहिः)।
अनु०-वद:, व्यक्तवाचाम्' इत्यनुवर्तते। अन्वयः-व्यक्तवाचाम् अनोरकर्मकाद् वद: कर्तरि आत्मनेपदम्।
अर्थ:-व्यक्तवाग्विषयाद् अकर्मकाद् वद-धातो: कर्तरि आत्मनेपदं भवति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org