SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ १७३ प्रथमाध्यायस्य तृतीयः पादः वद व्यक्तायां वाचि (भ्वा०प०)(३६) भासनोपसंभाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः ।४७। प०वि०-भासन-उपसंभाषा-ज्ञान-यत्न-विमति-उपमन्त्रणेषु ७।३ वद: ५।१। स०-भासनं च उपसंभाषा च ज्ञानं च यत्नश्च विमतिश्च उपमन्त्रणं च तानि-भासनोपसंभाषाज्ञानयत्नविमत्युपमन्त्रणानि, तेषु-भासनोंपसंभाषाज्ञानयत्नविमत्युपमन्त्रणेषु (इतरेतरयोगद्वन्द्वः)। अन्वय:-भासन उपमन्त्रणेषु वद: कर्तरि आत्मनेपदम् । अर्थ:-भासन-उपसंभाषा-ज्ञान-यत्न-विमति-उपमन्त्रणेष्वर्थेषु वर्तमानाद् वदो धातो: कर्तरि आत्मनेपदम् भवति । उदा०-(भासने) व्याकरणशास्त्रे वदते। भासमान:= दीप्यमानस्तत्रपदार्थान् व्यक्तीकरोतीत्यर्थः। (उपसंभाषायाम्) कर्मकरानुपवदते। उपसान्त्वयतीत्यर्थ: । उपसंभाषा-उपसान्त्वनम्। (ज्ञाने) व्याकरणे वदते। जानाति वदितुमित्यर्थः । ज्ञानम् सम्यगवबोधः। (यत्ने) क्षेत्रे वदते। तत्र उत्सहते इत्यर्थः । यत्नः=उत्साहः। (विमतौ) क्षेत्रे विवदन्ते। गेहे विवदन्ते । तत्र विमतिपतिता विचित्रं भाषन्ते इत्यर्थ: । विमति: नानामतिः । (उपमन्त्रणे) कुलभार्यामुपवदते। परदारांनुपवदते । उपच्छन्दयतीत्यर्थः । उपमन्त्रणम् रहस्युपच्छन्दनम् । आर्यभाषा-अर्थ-(भासन०) भासन, उपसंभाषा, ज्ञान, यत्न, विमति और उपमन्त्रण अर्थ में विद्यमान (वदः) वद् धातु से (कतरि) कर्तृवाच्य में (आत्मनेपदम्) आत्मनेपद होता है। उदा०-(भासन) व्याकरणशास्त्रे वदते। व्याकरणशास्त्र में दीप्यमान होकर उसके पदार्थों को प्रकाशित करता है। (उपसंभाषा) कर्मकरानुपवदते। नौकरों को सान्त्वना प्रदान करता है। (ज्ञान) व्याकरणशास्त्रे वदते। व्याकरणशास्त्र को बोलना जानता है। (यत्न) क्षेत्रे वदते। क्षेत्रविषयक उत्साह को प्रकट करता है। (विमति) क्षेत्रे विवदन्ते। खेत में नानामति में पड़े हुये विचित्र भाषण करते हैं। (उपमन्त्रण) कुलभार्यामुपवदते। कुलभार्या को बहकाता है। परदारानुपवदते । परदारा को फुसलाता है। सिद्धि-वदते। वद्+लट् । वद्+शप्+त। वद्+अ+ते। वदते। यहां भासन आदि अर्थ में वद धातु से आत्मनेपद 'त' प्रत्यय है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy