SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य प्रथमः पादः॥ [घटध्मः, घटधः] घटं धमति-धयति वा । पूर्वं 'आत् सन्ध्यक्षरस्य' (४।२।१) धा, ततो वाक्यम् । 'आतो डोऽह्वा-वा-मः' (५।१।७६) डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१११४) आलुक् । [खरध्मः, खरधः] खरं धमति-धयति वा । पूर्वं 'आत् सन्ध्यक्षरस्य' (४।२।१) धा, ततो वाक्यम् । 'आतो डोऽह्वा-वा-मः' (५।१७६) डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) आलुक् ॥छ।। पाणि-करात् ॥ ५।११२१ ॥ [पाणिकरात्] पाणिश्च करश्च = पाणिकरम्, तस्मात् । [पाणिन्धमः] पाणि 'ध्मां शब्दा-ऽग्निसंयोगयोः' (४) ध्मा । पाणिं धमति । अनेन खशप्र० → अ । 'खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः । 'श्रौति-कृवु-धिवु-पा-घ्रा-ध्मा०' (४।२।१०८) ध्मा० → धम आदेशः । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (४।२।११३) अलोपः ।। [करन्धमः] कर 'ध्मां शब्दा-ऽग्निसंयोगयोः' (४) ध्मा । करं धमति । अनेन खशप्र० → अ । 'खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः । 'कतर्यनद्भ्यः शव्' (३।४।७१) शव् । 'श्रौति-कृवु-धिवु-पा-घ्रा-ध्मा०' (४।२।१०८) ध्मा० → धम आदेशः । 'लुगस्यादेत्यपदे' (४।२।११३) अलोपः ।। [पाणिन्धयः ] पाणिं धयति । मतान्तरेऽनेन खश्प्र० - मोऽन्तः । [करन्धयः ] करं धयति । मतान्तरेऽनेन खश्प्र० - मोऽन्तः । [पाणिन्धमाः पन्थानः] पाणि धमन्तीति पन्थान इत्यादिषु योगे इत्याह । अनेन खशप्र० → अ । 'खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः । प्रथमा जस् । पथिन् प्रथमा जस् । 'थो न्थ्' (१।४।७८) थ् → न्थ्० । 'ए:' (१।४।७७) इ० → आ० । [करन्धमाः पन्थानः] करं धमन्तीति पन्थान इत्यादिषु योगे इत्याह । अनेन खश्प्र० → अ । 'खित्यनव्ययाऽरुषो०' (३२।१११) मोऽन्तः । प्रथमा जस् । [नाडिन्धमाः पन्थानः] नाडी धमन्तीति पन्थान इत्यादिषु योगे इत्याह । 'नाडी-घटी-खरी-मुष्टि-नासिका-वाताद् ध्मश्च' (५।१।१२०) खश्प्र० → अ । 'खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः-हस्वश्च । प्रथमा जस् । पथिन् प्रथमा जस् । 'थो न्थ्' (१।४।७८) थ् → न्थ्० । 'ए:' (१।४७७) इ० → आ० इति 'तद्योगाद् यथा मञ्चाः क्रोशन्ति' - पाणिन्धमादिषु पुरुषयोगात् पन्थानोऽपि तथा अभिधीयन्ते यथा मञ्चस्थपुरुषसंबंधात् मञ्चाः क्रोशन्ति ॥छा। कूलादुद्रुजोद्वहः ॥ ५।१।१२२ ॥ [कूलात्] कूल पञ्चमी ङसि । [ उगुजोद्वहः ] उद्रुजश्च उद्वह् च = उगुजोद्वह, तस्मात् । [कूलमुद्रुजो गजः] कूल उत् 'रुजोत् भङ्गे' (१३५०) रुज् । कूलमुद्रुजतीति कूलमुद्रुजो गजः । अनेन खश्प्र० → अ । खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः । 'तुदादेः शः' (३।४।८१) शप्र० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । [कूलमुद्वहा नदी ] कूल उत् ‘वहीं प्रापणे' (९९६) वह् । कूलमुद्वहतीति कूलमुद्वहा नदी । अनेन खश्प्र० → अ। 'खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः । 'कर्त्तर्यनद्भ्यः शव्' (३।४/७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । 'आत्' (२।४।१८) आप्प्र० → आ ॥छ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy