SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य प्रथमः पादः॥ ७७ धारेर्धर् च ॥ ५।१।११३ ॥ [धारेः] धारि षष्ठी ङस् । [धर् ] धर् प्रथमा सि । [च] च प्रथमा सि । [वसुन्धरा पृथ्वी] 'धृण धारणे' (........), अपरपठितः चुरादौ द्रष्टव्यः । 'चुरादिभ्यो णिच्' (३।४।१७) णिचप्र० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर् । वसूनि-रत्नानि धारयतीति(न्तीति) वसुन्धरा । अनेन खप्र० - "धर्" आदेशश्च । [युगन्धरः तीर्थङ्करः] युगं धारयतीति युगन्धरः । अनेन खप्र० - "धर्" आदेशश्च । [सीमन्धरः तीर्थङ्करः] सीमां-सीमानं धारयतीति सीमन्धरः । अनेन खप्र० - "धर" आदेशश्च । [छत्रधारः] छत्रं धारयतीति । 'कर्मणोऽण्' (५।१।७२) अण्प्र० → अ । 'णेरनिटि' (४।३।८३) णिग्लोपः ॥छ।। पुरन्दर-भगन्दरौ ॥ ५।१।११४ ॥ [पुरन्दरभगन्दरौ] पुरन्दरश्च भगन्दरश्च = पुरन्दरभगन्दरौ । [पुरन्दरः शक्रः] 'दृश् विदारणे' (१५३५) दृ । दृणन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर् । पुरो दारयतीति पुरन्दरः । अनेन खप्र० → अ, पुरशब्दात् निपातनात् अम् आनीयते । [भगन्दरो व्याधिः] भगं दारयतीति भगन्दरः । अनेन खप्र० । 'खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः । अनेनैव निपातनात् दारयतेईस्वत्वमुभयत्र । पुरशब्दपूर्वस्य तु पुरदार इति भवति, यतो निपातनस्येष्टविषयत्वात् ॥छ।। वाचंयमो व्रते ॥ ५।१।११५ ॥ [वाचंयमः] वाचंयम प्रथमा सि । 'सो रुः' (२११७२) स० → र० । [व्रते ] व्रत सप्तमी ङि । व्रतं-शास्त्रितो नियमः । शास्त्रं सजातमस्य उपदेशकतया । 'तदस्य सञ्जातं तारकादिभ्य इतः' (७१।१३८) इतप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । शास्ता-उपाध्यायः, तं कर्मतापन्नं इतः प्राप्तः शास्तुः सकाशात्-इत आगतो वा व्रतं शास्त्रविहितो नियम इति ।। [वाचंयमो व्रती] वाचं यच्छति-नियमयति वा वाचंयमो व्रती । अनेन खप्र०, वाचशब्दात् अम् निपात्यते । [वाग्यामोऽन्यः] वाचं यच्छतीति । 'कर्मणोऽण्' (५।१।७२) अण्प्र० → अ । 'णिति' (४।३५०) उपान्त्यवृद्धिः आ । अन्य प्रथमा सि ॥छ।। मन्याण्णिन् ॥ ५।१।११६ ॥ [मन्यात्] मन्य पञ्चमी ङसि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy