SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ७८ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । [ णिन् ] णिन् प्रथमा सि । [ पण्डितमानी बन्धोः ] पण्डित बुधि (१२६२) 'मनिच् ज्ञाने' (१२६३) मन् । पण्डितं मन्यते बन्धुं पण्डितमानी । अनेन णिन्प्र० → इन् । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । प्रथमा सि । 'इन्- हन्- पूषाऽर्यम्णः शिस्यो:' (१।४।८७) दीर्घः । 'दीर्घङ्याब्० ' (१।४।४५) सिलुक् । 'नाम्नो नोऽनन: ' (२।१।९१) नलुक् । [ दर्शनीयमानी भार्यायाः ] 'दृशुं प्रेक्षणे' (४९५ ) दृश् । दृश्यते । 'तव्या - ऽनीयौ' (५/११२७) अनीयप्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । दर्शनीयां मन्यते भार्यां = दर्शनीयमानी । अनेन णिन्प्र० → इन् । 'ञ्णिति' (४|३|५०) उपान्त्यवृद्धिः आ । प्रथमा सि । 'इन्- हन्- पूषाऽर्यम्णः शिस्यो:' (१।४।८७) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः ' (२|१|९१) नलुक् । श्यनिर्देश उत्तरार्थः ॥छ | कर्तुः खश् ||५|१|११७ ॥ [ कर्तुः] कर्तृ पञ्चमी ङसि । [ खश्] खश् प्रथमा सि । यदा प्रत्ययार्थः कर्त्ता आत्मानमेव दर्शनीयत्वादिना धर्मेण विशिष्टं मन्यते तदाऽयं कर्म, तत्राऽयं विधिः । = [ पण्डितम्मन्यः ] पण्डित बुधि (१२६२) - 'मनिच् ज्ञाने' (१२६३) मन् । पण्डितमात्मानं मन्यते । अनेन खश्प्र० → अ । 'खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः । 'दिवादेः श्यः' (३।४।७२ ) श्यप्र०य । [पट्विम्मन्या ] पटु 'स्वरादुतो गुणादखरोः ' (२।४।३५) ङी । वत्वम् । बुधि (१२६२ ) - 'मनिच् ज्ञाने ' (१२६३) मन् । पट्वीमात्मानं मन्यते = पट्विम्मन्या । अनेन खश्प्र० अ । 'खित्यनव्ययाऽरुषो० ' ( ३।२।१११) मोऽन्तः हस्वत्वं च । 'दिवादेः श्यः' (३।४।७२) श्यप्र०य । 'आत्' (२|४|१८) आप्प्र० आ । [ विद्वन्मन्यः ] 'विदक् ज्ञाने' (१०९९) विद् । वेत्तीति विद्वान् । 'वा वेत्ते: क्वसुः' (५/२/२२) क्वसुप्र० वस्, विद्वस् । विद्वांसमात्मानं मन्यते । अनेन खश्प्र० अ । 'दिवादेः श्यः' (३।४।७२) श्यप्र०य । 'स्रंस्- ध्वंस्क्वस्सनडुहो दः' (२|१|६८) स० द० । 'तृतीयस्य पञ्चमे' (१|३|१) द० न० । Jain Education International - [ विदुषिम्मन्या ] 'विदक् ज्ञाने' (१०९९) विद् । वेत्तीति विद्वान् । 'वा वेत्तेः क्वसुः' (५/२/२२) क्वसुप्र० वस् । 'अधातूदृदितः' (२।४।२) ङी । विदुषीमात्मात्मानं मन्यते । अनेन खश्प्र० अ । 'खित्यनव्ययाऽरुषो० ' ( ३।२।१११) मोऽन्तः - हूस्वत्वं च । 'दिवादेः श्यः' (३।४।७२ ) श्यप्र० य। 'आत्' (२|४|१८) आप्प्र ० आ । असरूपत्वाण्णिन्नपि [ पण्डितमानी ] पण्डितमात्मानं मन्यते । पूर्वेण णिन्प्र० इन् । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । शेषं पूर्ववत् । अग्रेषु [ पटुमानिनी, विद्वन्मानी, विद्वन्मानिनी ] एवं ज्ञेयम् । विद्वन्मानिनीत्यत्र 'स्त्रियां नृतोऽस्वस्रादेङः ' (२|४|१) ङी । शकारः शित्कार्यार्थः ॥छ | For Private Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy