SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य प्रथमः पादः॥ [पचः] पच् पञ्चमी ङसि । [प्रस्थम्पचा स्थाली] प्रस्थ 'डुपची पाके (८९२) पच् । प्रस्थं पचतीति प्रस्थम्पचा स्थाली । अनेन खप्र० → अ । 'खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः । 'आत्' (२।४।१८) आप्प्र० → आ । [द्रोणम्पचा दासी ] द्रोण 'डुपचीष् पाके' (८९२) पच् । द्रोणं पचतीति द्रोणम्पचा दासी । अनेन खप्र० → अ। 'खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः । 'आत्' (२।४।१८) आप्प्र० → आ । [अल्पम्पचा मुनयः] अल्पं पचन्तीति अल्पम्पचा मुनयः । अनेन खप्र० → अ । 'खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः । प्रथमा जस् । [मितम्पचा ब्राह्मणी] मितं पचतीति । अनेन खप्र० → अ । 'खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः । 'आत्' (२।४।१८) । आप्प्र० → आ, ब्राह्मणी । [नखम्पचा यवागूः] नखं पचतीति । अनेन खप्र० → अ । 'खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः । 'आत्' (२।४।१८) आप्प्र० → आ, यवागूः ॥छ।। कूला-ऽभ्र-करीषात् कषः ॥ ५।१।११० ॥ [कूलाऽभ्रकरीषात् ] कूलश्च अभ्रश्च करीषश्च = कूलाऽभ्रकरीषम्, तस्मात् [कषः] कष् पञ्चमी ङसि । [कूलषा नदी] 'कष हिंसायाम्' (५०७) कष् । कूलं कषतीति । अनेन खप्र० → अ । 'खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः । 'आत्' (२।४।१८) आप्प्र० → आ । [अभ्रङ्कयो गिरिः] अभं कषतीति । अनेन खप्र० → अ । 'खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः । [करीषकषा वात्या ] करीषं कषतीति । अनेन खप्र० → अ । 'खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः । 'आत्' (२।४।१८) आप्प्र० → आ । वात । वातानां समूहः = वात्या । 'पाशाऽऽदेश्च ल्यः' (६।२।२५) ल्यप्र० → य । 'अवर्णेवर्णस्य' (७४।६८) अलोपः । 'आत्' (२।४।१८) आप्प्र० → आ ॥छा। सर्वात् सहश्च ॥ ५।१।१११ ॥ [सर्वात् ] सर्व पञ्चमी ङसि । [सहः ] सह पञ्चमी ङसि । [च] च प्रथमा सि । [सर्वंसहो मुनिः] 'षहि मर्षणे' (९९०) षह् । 'षः सोऽष्ट्य-ष्ठिव-ष्वष्कः' (२।४।९८) सह । 'सर्वं सहते = सर्वंसहो मुनिः । अनेन खप्र० → अ । 'खित्यनव्ययाऽरुषो०' (३२।१११) मोऽन्तः । [सर्वकषः खलः ] सर्वं कषतीति सर्वङ्कषः खलः । अनेन खप्र० → अ । 'खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः ॥छ।। भृ-वृ-जि-तू-तप-दमेश्च नाम्नि ॥ ५।१।११२ ॥ [भृवृजितृतपदमेः ] भृश्च वृश्च जिश्च तृश्च तपश्च दमिश्च = भृवृजितृतपदमि, तस्मात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy