________________
७४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[मेघङ्करः] मेघान् करोतीति मेघङ्करः । अनेन खप्र० → अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । 'खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः ।
[ऋतिङ्करः] ऋतिर्गतिः-सत्यता वा । ऋतिं करोतीति ऋतिङ्करः । अनेन खप्र० → अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । 'खित्यनव्यया०' (३।२।१११) मोऽन्तः ।
[भयङ्करः] भयं करोतीति भयङ्करः । अनेन खप्र० → अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । 'खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः ।
[अभयङ्करः] अभयं करोतीति अभयङ्करः । अनेन खप्र० → अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । 'खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः । हेत्वादिविक्षायां टमपि बाधते परत्वात्, यथा - 'भयङ्करं श्मशानम्' ॥छ।।
प्रिय-वशाद् वदः ॥ ५।१।१०७ ॥ [प्रियवशात् ] प्रियश्च वशश्च = प्रियवशम्, तस्मात् । [वदः] वद् पञ्चमी ङसि ।
[प्रियम्वदः] प्रिय 'वद व्यक्तायां वाचि' (९९८) वद् । प्रियं वदतीति प्रियम्वदः । अनेन खप्र० → अ । 'खित्यनव्ययाऽरुषो मोऽन्तो हुस्वश्च' (३।२।१११) मोऽन्तः ।
[वशम्वदः] वश 'वद व्यक्तायां वाचि' (९९८) वद् । वशं वदतीति वशम्वदः । अनेन खप्र० → अ । 'खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः ॥छ।।
द्विषन्तप-परन्तपौ ॥ ५।१।१०८ ॥ [द्विषन्तपपरन्तपौ] द्विषन्तपश्च परन्तपश्च = द्विषन्तपपरन्तपौ ।
[द्विषन्तपः] द्विषींक् अप्रीतौ (११२६) द्विष् । द्वेष्टीति द्विषत् । 'सुग्-द्विषार्हः सत्रि-शत्रु-स्तुत्ये' (५।२।२६) अतृशप्र० → अत् = द्विषत् । 'तपं संतापे' (३३३) तप् । तपतः(तपन्तं) प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । द्विषतस्तापयतीति द्विषन्तपः । अनेन खप्र० - हुस्वत्वं - द्विषत्तकारस्य मकारश्च निपात्यन्ते ।
[परन्तपः] परान् तापयतीति परन्तपः । अनेन खप्र० । 'खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः । [द्विषतीताप:] द्विषतीं तापयति । 'कर्मणोऽण्' (५।१।७२) अण्प्र० → अ । 'णेरनिटि' (४।३।८३) णिग्लोपः । [द्विषत्तापः] द्विषतः तपति । 'कर्मणोऽण' (५।१।७२) अण्प्र० → अ । 'णिति' (४।३।५०) उपान्त्यवृद्धिः आ । [परतापः] परान् तपति । 'कर्मणोऽण' (५।१।७२) अण्प्र० → अ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । अत्र अण्यन्तस्य तपेः खो न भवति ॥छा।
परिमाणार्थ-मित-नखात् पचः ॥ ५।१।१०९ ॥ [परिमाणार्थमितनखात्] परिमाणरूपोऽर्थो येषां ते = परिमाणार्थाः । परिमाणार्थश्च मितश्च नखश्च = परिमाणार्थमितनखम्, तस्मात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org