SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य प्रथमः पादः॥ [कर्मकरो भृतकः] कर्म करोतीति कर्मकरो भृतकः । [कर्मकरी दासी ] कर्म करोतीति कर्मकरी दासी । अनेन टप्र० → अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । 'अणजेयेकण-न-स्नञ्-टिताम्' (२।४।२०) डी । 'अस्य यां लुक्' (२।४।८६) अलुक् । [कर्मकारः] कर्म करोति । 'कर्मणोऽण्' (५।१।७२) अण्प्र० → अ । 'नामिनोऽकलि-हलेः' (४।३५१) वृद्धिः आर् । पुनः कर्मग्रहणं शब्दरूपकर्मप्रतिपत्त्यर्थम् ॥छ।। क्षेम-प्रिय-मद्र-भद्रात् खाऽण् ॥ ५।१।१०५ ॥ [क्षेमप्रियमद्रभद्रात् ] क्षेमश्च प्रियश्च मद्रश्च भद्रश्च = क्षेमप्रियमद्रभद्रम्, तस्मात् । [खाऽण् ] खश्च अण् च = खाऽण् । प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलुप् । [क्षेमङ्करः, क्षेमकारः] क्षेमं करोतीति क्षेमङ्करः-क्षेमकारः । अनेन ख-अण्प्र० । 'खित्यनव्ययाऽरुषो मोऽन्तो हुस्वश्च' (३।२।१११) मोऽन्तः । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । 'नामिनोऽकलि-हले:' (४।३।५१) वृद्धिः आर् । [प्रियङ्करः, प्रियकारः] प्रियं करोतीति प्रियङ्करः - प्रियकारः । अनेन ख-अण्प्र० । 'खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः आर् । [मद्रङ्करः, मद्रकारः] मद्रं करोतीति मद्रङ्करः - मद्रकारः । अनेन ख-अणप्र० । 'खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । 'नामिनोऽकलि-हले:' (४।३।५१) वृद्धिः आर् । [भद्रङ्करः, भद्रकारः] भद्रं करोतीति भद्रङ्करः - भद्रकारः । अनेन ख-अणप्र० । 'खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः आर् । [तीर्थकरः] तीर्थं करोतीति तीर्थकरः । 'हेतु-तच्छीला-ऽनुकूलेऽशब्द-श्लोक-कलह-गाथा-वैर-चाटु-सूत्र-मन्त्रपदात्' (५।१।१०३) टप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । [तीर्थङ्करः, तीर्थकारः] तीर्थं करोतीति तीर्थङ्करः - तीर्थकारः । मतान्तरे ख-अण्प्र० अनेनैव । 'खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः आर् । खो वेति सिद्धे अण्ग्रहणं हेत्वादिष्वपि टबाधनार्थम् । [योगक्षेमकरी लोकस्य] योगश्च क्षेमश्च = योगक्षेमौ, योगक्षेमौ करोति = योगक्षेमकरी । 'हेतु-तच्छीलाऽनुकूलेऽशब्द-श्लोक-कलह०' (५।१।१०३) टप्र० → अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । 'अणजेयेकण्' (२।४।२०) ङी । लोक षष्ठी ङस् ॥छा। __ मेघर्ति-भया-ऽभयात् खः ॥ ५।१।१०६ ॥ [ मेघर्तिभयाऽभयात् ] मेघश्च ऋतिश्च म भयं च अभयं च = मेघर्तिभयाऽभयम्, तस्मात् । [खः] ख प्रथमा सि । Pए भयश्च अभयश्च । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy