________________
पञ्चमाध्यायस्य प्रथमः पादः॥
७१
[बाहुकरः] बाहुं करोतीति । बाहुशब्दो बाहुकर्मणि वर्त्तते । यो बाहुकर्म करोति स एवमुच्यते । अथवा उच्छादने करोति वर्तते । यो बाहुमुच्छादयति - विमलीकरोति स एवमुच्यते । एवम् - जङ्घायामपि ।
[अरुष्करः] अरुस् - कृ । अरुः करोति = अरुष्करः । अनेन टप्र० → अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । 'समासेऽसमस्तस्य' (२।३।१३) षत्वम् ।
[धनुष्करः] धनुस् - क । धनुः करोति = धनुष्करः । अनेन टप्र० → अ । 'नामिनो गणोऽक्ङिति' (४।३।१) गु० अर् । 'समासेऽसमस्तस्य' (२।३।१३) षत्वम् ।
[नान्दीकरः] नान्दी(दि) 'इतोऽक्त्यर्थात्' (२।४।३२) ङी । नान्दी करोति = नान्दीकरः । [लिपिकरः] लिपि करोति = लिपिकरः । [लिबिकरः] लिबिं करोति = लिबिकरः । [बलिकरः] बलिं करोति = बलिकरः । [भक्तिकरः] भक्तिं करोति = भक्तिकरः । [क्षेत्रकरः] क्षेत्रं करोति = क्षेत्रकरः । [जङ्घाकरः ] जङघां करोति = जङ्घाकरः । [क्षपाकरः] क्षपां करोति = क्षपाकरः । [क्षणदाकरः] क्षणदां करोति = क्षणदाकरः । [रजनिकरः] रजनि करोति = रजनिकरः । [दोषाकरः] दोषा करोति = दोषाकरः । [दिनकरः] दिनं करोति = दिनकरः । [दिवसकरः] दिवसं करोति = दिवसकरः । अनेन सर्वत्र टप्र० → अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । दिवा-दोषाशब्दौ अव्ययौ । टकारो ङ्यर्थः ।
[संख्याकरी] संख्यां करोति । अनेन टप्र० → अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । 'अणजेयेकण्०' (२।४।२०) ङी ॥छ।।
हेतु-तच्छीला-ऽनुकूलेशब्द-श्लोक-कलह-गाथा-वैर-चाटु-सूत्र-मन्त्र-पदात् ॥ ५।१।१०३ ॥ [हेतुतच्छीलाऽनुकूले ] हेतुश्च तच्छीलश्च अनुकूलश्च = हेतुतच्छीलाऽनुकूलम्, तस्मिन् ।
[अशब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदात् ] शब्दश्च श्लोकश्च कलहश्च गाथा च वैरश्च चाटुश्च सूत्रश्च मन्त्रश्च पदश्च = शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदम्, पश्चान्नजा समासः, तस्मात् ।
हेतुः प्रतीता प्रसिद्धा शक्तिः - सामर्थ्य यस्य तत् तथा प्रतीतशक्तिकं कारणम् । तच्छीलं तत्स्वभावः । अनुकूल आराध्यचित्तानुवर्ती ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org