SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । [ किंकरी] किं करोति = किंकरी । ' हेतु - तच्छीला - ऽनुकूलेऽशब्द - श्लोक - कलह - गाथा - वैर - चाटु-सूत्र-मन्त्रपदात्' (५|१|१०३) टप्र० अ । 'नामिनो गुणोऽक्ङिति' (४|३|१) गु० अर् । 'अणञेयेकण्०' (२।४।२० ) ङी । जातिवाच्याऽत्र ॥ छा । ७० संख्या-ऽह-दिवा-विभा - निशा - प्रभा-भाश्चित्र-कर्त्राद्यन्ता - ऽनन्त - कार - बाह्वरु-र्धनु- र्नान्दी-लिपि - लिबिबलि-भक्ति-क्षेत्र - जङ्घा-क्षपा-क्षणदा-रजनि - दोषा-दिन- दिवसाट्टः ॥ ५|१|१०२ ॥ [ संख्याऽहर्दिवाविभानिशाप्रभाभाश्चित्रकर्त्राद्यन्ताऽनन्तकारबाह्वरुर्धनुर्नान्दीलिपिलिबिबलिभक्तिक्षेत्रजङ् घाक्षपाक्षणदारजनिदोषादिनदिवसात् ] संख्या च अहन् च (अहश्च) दिवा च विभा च निशा च प्रभा च भाश्च चित्रश्च कर्तृ च आदिश्च अन्तश्च अनन्तश्च कारश्च बाहुश्च अरुस् (श्) च धनुश्च नान्दी च लिपिश्च लिबिश्च बलिश्च भक्तिश्च क्षेत्रं च जङ्घा च क्षपा च क्षणदा च रजनिश्च दोषा च दिनश्च दिवसश्च = संख्याऽहर्दिवाविभानिशाप्रभाभाश्चित्रकर्त्राद्यन्ताऽनन्तकारबाह्वरुर्धनुर्नान्दीलिपिलिबिबलिभक्तिक्षेत्रजङ्घाक्षपाक्षणदारजनिदोषादिनदिवसम्, तस्मात् । [ट: ] ट प्रथमा सि । संख्याकरः ] संख्यां करोति = संख्याकरः । [ एककर: ] एकं करोति = एककरः । [ द्विकर: ] द्वौ करोति द्विकरः । [त्रिकरः ] त्रीन् करोति [ अहस्करः ] अहन् 'डुकृंग् करणे' (८८८) कृ । अहः करोति = अहस्करः । अनेन टप्र० अ । 'नामिनो गुणोऽक्ङिति (४|३|१) गु० अर् । 'अनतो लुप्' (१।४।५९) अम्लुप् । 'रो लुप्यरि' (२।१।७५) नस्य रत्वम् । अतः कृकमि कंस - कुम्भ - कुशा - कर्णी - पात्रेऽनव्ययस्य (२।३।५) र० स० । दिवाकरः । [ दिवाकरः ] दिवा करोति [ विभाकरः ] विभां करोति विभाकरः । [ निशाकरः ] निशां करोति = निशाकरः । = = त्रिकरः । Jain Education International = = [ प्रभाकरः ] प्रभां करोति = प्रभाकरः । [ भास्करः ] भासं करोति = भास्करः । 'सो रुः' (२।१।७२) स०र० । 'भ्रातुष्पुत्र- कस्कादयः' (२|३|१४) र० स० । [चित्रकर: ] चित्रं करोति = चित्रकरः । [ कर्तृकरः ] कर्तारं करोति कर्तृकरः । [ आदिकरः ] आदि करोति = आदिकरः । [ अन्तकरः ] अन्तं करोति = अन्तकरः । [ अनन्तकरः ] अनन्तं करोति = अनन्तकरः । [ कारकरः ] कारं करोति = कारकरः । = For Private Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy