SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य प्रथमः पादः॥ [आपः] आप पञ्चमी ङसि । [देवापिः] देव 'आप्लँट् व्याप्तौ' (१३०७) आप् । देवानाप्नोति । अनेन इप्र० । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'रः पदान्ते विसर्गस्तयोः' (१।३।५२) विसर्गः । [वातापिः] वात 'आप्लंट् व्याप्तौ' (१३०७) आप् । वातमाप्नोति । अनेन इप्र० । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० । 'र: पदान्ते०' (१।३।५३) विसर्गः ॥छ।। शकृत्-स्तम्बाद् वत्स-वीही कृगः ।। ५।।१०० ॥ [शकृत्स्तम्बात् ] शकृच्च स्तम्बश्च = शकृत्स्तम्बम्, तस्मात् । [वत्सवीहौ ] वत्सश्च व्रीहिश्च = वत्सव्रीहि, तस्मिन् । [कृगः] कृग् पञ्चमी ङसि । [शकृत्करिर्वत्सः ] शकृत् 'डुकुंग् करणे' (८८८) कृ । शकृत् करोति = शकृत्करिर्वत्सः । अनेन इप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् ।। [स्तम्बकरिीहिः ] स्तम्बं करोतीति स्तम्बकरिीहिः । अनेन इप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । [शकृत्कारः] शकृत् करोतीति शकृत्कारः । 'कर्मणोऽण्' (५।१।७२) अण्प्र० → अ । 'नामिनोऽकलि-हलेः' (४।३५१) वृ० आर् । [स्तम्बकारः] स्तम्बं करोतीति स्तम्बकारः । 'कर्मणोऽण्' (५।१।७२) अण्प्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर् । प्रथमा सि ॥छा। किम्-यत्-तद्-बहोरः ॥ ५।१।१०१ ॥ [किम्यत्तद्बहोः ] किम् च यच्च तद् च (तच्च) बहुश्च = किम्यत्तबहु, तस्मात् । [अ] अ प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'र: पदान्ते०' (१।३।५३) विसर्गः । [किंकरः, किंकरा] किम् 'डुकंग करणे' (८८८) कृ । किं करोतीति । अनेन अप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । 'आत्' (२।४।१८) आप्प्र० → आ । [यत्करः, यत्करा] यत्-कृ । यत् करोतीति । अनेन अप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । 'आत्' (२।४।१८) आप्प्र० → आ । [तत्करः तत्करा ] तद्-कृ । तत् करोतीति । अनेन अप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । 'आत्' (२।४।१८) आप्प्र० → आ । चौर्ये- [ तस्करः] तत् करोतीति । तत्करस्य त् इत्येवंस्य 'वर्चस्कादिष्ववस्कारादयः' (३।२।४८) इति सकारः । [बहुकरः, बहुकरा ] बहु-कृ । बहु करोतीति । अनेन अप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । 'आत्' (२।४।१८) आप्प्र० → आ । [बहुकरी] बहु करोति = बहुकरी । 'संख्या-ऽह-दिवा-विभा-निशा-प्रभा०' (५।१।१०२) टप्र० → अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । 'अणजेयेकण-न-स्नञ्-टिताम्' (२।४।२०) ङी । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy