SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ६६ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [सूत्रग्राहः ] सूत्रं गृह्णातीति । 'कर्मणोऽण' (५।११७२) अणप्र० → अ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । यो हि सूत्रं गृह्णाति न तु धारयति स एवमुच्यते ॥छ।। आयुधाऽऽदिभ्यो धृगोऽदण्डादेः ॥ ५।१।९४ ॥ [आयुधाऽऽदिभ्यः ] आयुधमादि येषां ते = आयुधाऽऽदयः, तेभ्यः = आयुधाऽऽदिभ्यः, पञ्चमी भ्यस् । [धृगः] धृग् पञ्चमी ङसि । [अदण्डादेः ] दण्ड आदिर्यस्य सः = दण्डादिः, न दण्डादिः = अदण्डादिः, तस्मात् । [धनुर्धरः] धनुस् 'धुंग धारणे' (८८७) धृ । धनुर्धरति । [शक्तिधरः] शक्ति धरति । [चक्रधरः] चक्रं धरति । [वज्रधरः] वज्रं धरति । [शूलधरः] शूलं धरति । [हलधरः] हलं धरति, बलभद्रः । आदिग्रहणात् [भूधरः] भुवं-पृथ्वीं धरति । [जलधरः] जलं धरति = जलधरो मेघः । [विषधरः] विषं धरति = विषधरः सर्पः । [शशधरः] शशं धरति = शशधरश्चन्द्रः । [विद्याधरः] विद्यां धरतीति । [श्रीधरः] श्रियं-लक्ष्मी धरति = श्रीधरो नारायणः । [जटाधरः] जटां धरति । [पयोधरः] पयः - पानीयं धरति = पयोधरो मेघः । अनेन सर्वत्र अचप्र० → अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । [दण्डधारः] दण्डं धरति । [कुण्डधारः] कुण्डं धरति । [काण्डधारः] काण्डं धरति । [कर्णधारः] कर्णं धरति । [सूत्रधारः] सूत्रं धरति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy