SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य प्रथमः पादः॥ ६७ [छत्रधारः] छत्रं धरति । सर्वत्र 'कर्मणोऽण्' (५।१।७२) अण्प्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः आर् छ।। हगो वयो-ऽनुद्यमे ॥ ५।१।९५ ॥ [हगः] हग् पञ्चमी ङसि । [वयोऽनुद्यमे] 'यमू उपरमे' (३८६) यम्, उत्पूर्व० । उद्यमनं = उद्यमः । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० । 'उद्यमोपरमौ' (४।३।५७) इति निर्देशात् न दीर्घः । न उद्यमोऽनुद्यमः । वयश्च अनुद्यमश्च = वयोऽनुद्यमम् तस्मिन् । प्राणिनां कालकृतावस्था वयः, उद्यम उत्क्षेपणं - आकाशस्थस्य वा धारणम्, तदभावोऽनुद्यमः । [अस्थिहरः श्वशिशुः] अस्थि 'हंग् हरणे' (८८५) ह । अस्थि हरतीति अस्थिहरः श्वशिशुः । अनेन अच्प्र० → अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । [कवचहरः क्षत्रियकुमारः] कवचं-सन्नाहं हरतीति कवचहरः क्षत्रियकुमारः । अनेन अचप्र० → अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । [अंशहरो दायादः] अंशं-भागं हरतीति अंशहरो दायादः । अनेन अच्प्र० → अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । [मनोहरः प्रासादः] मनो हरतीति मनोहरः प्रासादः । अनेन अच्प्र० → अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । [मनोहरी मणिः] मनो हरति । मतान्तरे टप्र० → अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । 'अणजेयेकण-नब्-स्नञ्-टिताम्' (२।४।२०) ङी, मणिः । [विषहरी मणिः] विषं हरति । मतान्तरे टप्र० → अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । 'अणजेयेकण' (२।४।२०) ङी, मणिः । [भारहारः] भारं हरतीति । 'कर्मणोऽण्' (५।१।७२) अण्प्र० → अ । 'नामिनोऽकलि-हलेः' (४।३५१) वृद्धिः आर् । वयसि क्रियमाणः संभाव्यमानो वोद्यम उच्यमानो वयो गमयतीति उद्यमार्थं वयोग्रहणम् । नन्वत्र वयोग्रहणं किमर्थम् ? इत्याह- उद्यमार्थमिति, अयमर्थो यत्र वयस्तत्रोद्यमेऽसत्यपि भवतीत्यर्थः, यथा कवचहर इत्यादौ ॥छ।। आङः शीले ॥ ५।१।९६ ॥ [आङ:] आङ् पञ्चमी ङसि । [शीले] शीलं = स्वाभाविकी प्रवृत्तिः । स्वभावे भवा । 'अध्यात्मादिभ्य इकण्' (६।३।७८) इकण्प्र० । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [पुष्पाहरः ] पुष्प 'हंग् हरणे' (८८५) हृ, आङ्पूर्व० । पुष्पाण्याहरतीत्येवंशीलः = पुष्पाहरः । अनेन अच्प्र० → अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । [फलाहरः] फलान्याहरतीत्येवंशीलः = फलाहरः । अनेन अचप्र० → अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy