SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ६२ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [आखुघातो बिडालः] आखं हन्तीति आखुघातः । 'कर्मणोऽण्' (५।१।७२) अण्प्र० → अ । 'ञ्णिति घात्' (४।३।१००) हन्० → घात्०, बिडालः । [मत्स्यघातो बकः] मत्स्यं हन्तीति मत्स्यघातः । 'कर्मणोऽण्' (५।१।७२) अण्प्र० → अ । 'णिति घात्' (४।३।१००) हन् → घात्०, बकः । [सस्यघातो वृषभः] सस्यं हन्तीति सस्यघातः । 'कर्मणोऽण्' (५।१।७२) अण्प्र० → अ । 'ञ्णिति घात्' (४।३।१००) हन्० → घात्०, वृषभः ॥छ।। जाया-पतेश्चिह्नवति ॥ ५।१६८४ ॥ [जायापतेः] जाया च पतिश्च = जायापति, तस्मात् । [चिह्नवति चिह्नमत्राऽस्तीति चिह्नवान्, तस्मिन् । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् । 'मावर्णान्तोपान्तापञ्चमवर्गान् मतोर्मो वः' (२।१।९४) म० → व० । सप्तमी ङि । चिह-शरीरस्थं शुभाशुभसूचकं तिलकालकादि । [जायानो ब्राह्मणः] जायां हन्तीति जायाघ्नो ब्राह्मणः । अनेन टक्प्र० → अ । 'गम-हन-जन-खन-घस:०' (४।२।४४) अलुक् । 'हनो नो घ्नः' (२।१।११२) न० । [पतिघ्नी कन्या] पति हन्तीति । अनेन टक्प्र० = अ । 'गम-हन-जन-खन-घस:०' (४।२।४४) अलुक् । 'हनो ह्नो घ्नः' (२।१।११२) न० । 'अणजेयेकण्०' (२।४।२०) ङी । 'अस्य यां लुक्' (२।४।८६) अलुक्, अपलक्षणयुगित्यर्थः ॥छ। ब्रह्माऽऽदिभ्यः ॥ ५।१।८५ ॥ [ब्रह्माऽऽदिभ्यः] ब्रह्म आदिर्येषां ते = ब्रह्मादयः, तेभ्यः = ब्रह्माऽऽदिभ्यः, पञ्चमी भ्यस् । [ब्रह्मनः ] ब्रह्मन् 'हनंक हिंसा-गत्योः' (११००) हन् । ब्रह्म हन्तीति । अनेन टक्प्र० → अ । 'गम-हन-जनखन-घसः स्वरेऽनङि क्ङिति लुक् (४।२।४४) अलुक् । 'हनो नो नः' (२।१।११२) घ्न । [कृतघ्नः ] कृतं हन्तीति । अनेन टक्प्र० → अ । 'गम-हन-जन-खन-घस:०' (४।२।४४) अलुक् । 'हनो ह्नो घ्नः' (२।१।११२) ० । [शत्रुघ्नः] शत्रु हन्तीति । अनेन टक्प्र० → अ । 'गम-हन-जन-खन-घस:०' (४।२।४४) अलुक् । 'हनो नो घ्नः' (२।१।११२) न० । [वृत्रनः] वृत्रं हन्तीति । अनेन टक्प्र० → अ । 'गम-हन-जन-खन-घस:०' (४।२।४४) अलुक् । 'हनो नो घ्नः' (२।१।११२) घ्न० ।। __ [भ्रूणनः] भ्रूणं हन्तीति । अनेन टक्प्र० → अ । 'गम-हन-जन-खन-घस:०' (४।२।४४) अलुक् । 'हनो ह्नो घ्नः' (२।१।११२) न० । [बालनः ] बालं हन्तीति । अनेन टक्प्र० → अ० । शेषं पूर्ववत् । P9 चिह्न विद्यते यस्याऽसौ। ब्रह्माणं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy