SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य प्रथमः पादः ॥ [ शीर्षघाती ] शीर्षं हन्ति । अनेन णिन्प्र० → इन् । 'ञ्णिति घात्' (४।३।१००) हन्० घात् । अत एव निपातनाच्छिरसः शीर्षभावः । प्रथमा सि । 'इन्- हन्- पूषाऽर्यम्णः शिस्योः ' (१।४।८७) दीर्घः । दीर्घङ्याब्०' (१|४|४५) सिलुक् । 'नाम्नो नोऽनन: ' (२|१|९१ ) नलुक् ॥छ। अचित्ते टक् ॥ ५।१।८३ ॥ ६१ [ अचित्ते ] न चित्तं = अचित्तम्, तस्मिन् । [ टक् ] टक् प्रथमा सि । [ वातघ्नं तैलम् ] वात 'हनंक् हिंसा-गत्योः' (११००) हन् । वातं हन्तीति । अनेन टक्प्र० → अ । 'गम-हनजन-खन-घसः स्वरेऽनङि क्ङिति लुक्' (४|२|४४) अलुक् । 'हनो नो घ्नः ' (२|१|११२) घ्न० । सि-अम् । [पित्तघ्नं घृतम्] पित्तं हन्तीति पित्तघ्नम् । अनेन टक्प्र० → अ । गम-हन-जन-खन-घस: ०' (४/२/४४) अलुक् । 'हनो नो घ्नः' (२|१|११२) घ्न० । सि-अम् । [ श्लेष्मघ्नं मधु ] श्लेष्माणं हन्तीति श्लेष्मघ्नं मधु । अनेन टक्प्र० → अ । 'गम-हन-जन-खन-घस: ० ' (४।२।४४) अलुक् । 'हनो नो घ्नः ' (२|१|११२) घ्न० । सि-अम् । [ रोगघ्नमौषधम् ] रोगान् हन्तीति रोगघ्नम् । अनेन टक्प्र० → अ । गम हन - जन-खन-घसः ०' (४/२/४४) अलुक् । 'हनो नो घ्नः' (२|१|११२) घ्न० । सि-अम् । [ जायाघ्नाः तिलकालकाः ] जायां हन्ति । अनेन टक्प्र० अ । गम-हन-जन-खन - घस: ० ' ( ४।२।४४) अलुक् । 'हनो नो घ्नः' (२|१|११२) घ्न० । प्र० जस् । तिलवत् कालका लक्षणविशेषाः । यद्वा तिलानां तुल्यास्तिलकाः, अलका इव अलकाः, तिलकाश्चैते अलकाश्च । येषां लोके मित्रा इति प्रसिद्धिः । [ पतिघ्नी पाणिरेखा ] पतिं हन्ति । अनेन टक्प्र० अ । शेषं पूर्ववत् । 'अणञेयेकण् - नञ् - स्नञ्- टिताम्' (२|४|२०) ङी । 'अस्य यां लुक्' (२|४|८६ ) अलुक् पाणिरेखा । [ सर्वकर्मघ्नी शैलेशी ] सर्वकर्माणि हन्तीति । अनेन टक्प्र० अ । शेषं पूर्ववत् । 'अणञेयेकण्०' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । शिलानामीशः = शिलेशस्तस्येयम् । निष्प्रकम्पत्वात् केवलिनां सर्वलो(यो)गनिरोधान्तरं क्रियाविशेषः अ इ उ ऋ लृ पञ्च हूस्वाक्षरोद्गिरणमात्रा = शैलेशी । [ शतघ्नी आयुधविशेषः ] शतं हन्तीति । अनेन टक्प्र० अ । 'गम-हन- जन - खन - घस: ० ' ( ४।२।४४) अलुक् । 'हनो नो घ्नः' (२|१|११२) घ्न० । 'अणत्रेयेकण्०' (२|४|२० ) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक्, आयुधविशेषः । [ हस्तघ्नो ज्याघातत्रो वर्धपट्टः ] हस्तं हन्ति । अनेन टक्प्र० अ । 'गम-हन-जन-खन-घस: ०' (४।२।४४) अलुक् । 'हनो नो घ्नः' (२|१|११२) घ्न०, ज्याघातत्रो वर्धपट्टः । [ पापघातो यतिः ] पापं हन्तीति पापघातः । 'कर्मणोऽण्' (५/१/७२ ) अण्प्र० अ । 'ञ्णिति घात्' (४।३।१००) हन्० घात्०, यतिः । [ चौरघातो राजा ] चौरं हन्तीति चौरघातः । 'कर्मणोऽण्' (५/१/७२ ) अण्प्र० → (४|३|१००) हन्० → घात्०, राजा । Jain Education International For Private Personal Use Only अ । 'ञ्णिति घात्' www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy