SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य प्रथमः पादः ॥ [पथिप्रज्ञः ] पथिन् 'ज्ञांश् अवबोधने' (१५४०) ज्ञा, प्रपूर्व० । पन्थानं प्रजानाति = पथिप्रज्ञः । अनेन डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) आलुक् । [प्रपाप्रदः] प्रपा 'डुदांग्क् दाने' (११३८) दा, प्रपूर्व० । प्रपां प्रददाति, प्रपां प्रदत्ते । अनेन डप्र० अ । 'डित्यन्त्यस्वरादेः' (२|१|११४) आलुक् । [स्तनप्रधाय: ] स्तन प्र 'ट्वें पाने' (२८) घे । 'आत् सन्ध्यक्षरस्य' (४/२/१) धा । स्तनौ प्रधयतीति । 'कर्मणोऽण्' (५/१/७२ ) अण्प्र० अ । 'आत ऐः कृञ्ञ' (४।३।५३) आ० ऐ० । 'एदैतोऽयाय् ' (१।२।२३) आय् । सर्वत्र प्रथमा सि । 'सो रु: ' (२।१।७२) स०र० । 'र: पदान्ते० ' (१।३।५३) विसर्गः ॥छ | आशिषि हनः || ५|१|८० ॥ [ आशिषि ] आशिष् सप्तमी ङि । [ हन: ] हन् पञ्चमी ङसि । [ शत्रुहः ] शत्रु 'हनंक् हिंसा - गत्योः ' (११००) हन् । शत्रुं हन्यात् ( वध्यात्) इत्याशास्यमानः = शत्रुहः । अनेन डप्र० → अ । ‘डित्यन्त्यस्वरादेः' (२|१|११४) अन्त्यस्वरादिलोपः । [ पापहः ] पाप हन् । पापं हन्यात् (वध्यात्) इत्याशास्यमानः पापहः । अनेन डप्र० ->>> अ । 'डित्यन्त्यस्वरादेः' (२|१|११४) अन्त्यस्वरादिलोपः । - [ दुःखहः ] दु:ख हन् । दुःखं हन्यात् (वध्यात् ) इत्याशास्यमानः दु:खहः । अनेन डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२|१|११४) अन्त्यस्वरादिलोपः । [क्रोशहः ] क्रोशं हन्ति । मतान्तरे डप्र० अ । 'डित्यन्त्यस्वरादेः' (२|१|११४) अन्त्यस्वरादिलोपः || || क्लेशाऽऽदिभ्योऽपात् ॥ ५/१८१ ॥ [ तमोऽपहः] तमस् अप- हन् । तमोऽपहन्ति । अनेन प्र० अन्त्यस्वरादिलोपः । [ दुःखापहः ] दुःख अप- हन् । दुःखमपहन्ति । अनेन डप्र० अन्त्यस्वरादिलोपः । [ क्लेशाऽऽदिभ्यः ] क्लेश आदिर्येषां ते क्लेशादयः, तेभ्यः । = [ अपात् ] अप पञ्चमी ङसि । [ क्लेशापहः ] क्लेश अप 'हनंक् हिंसा - गत्योः ' (११००) हन् । क्लेशमपहन्ति । अनेन डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२|१|११४) अन्त्यस्वरादिलोपः । जरापहः] जरा अप- हन् । जरामपहन्ति । अनेन डप्र० अन्त्यस्वरादिलोपः । बृहद्वृत्तौ Jain Education International - ५९ = ज्वरापहः । For Private Personal Use Only = ->> -> अ । 'डित्यन्त्यस्वरादेः' (२|१|११४) -> अ । 'डित्यन्त्यस्वरादेः' (२|१|११४) अ । 'डित्यन्त्यस्वरादेः' (२|१|११४) www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy