SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । [ विष्णुश्रुतः ] विष्णु 'श्रुंट् श्रवणे' (१२९६) श्रु । विष्णुरेनं श्रूयादित्याशास्यमानः । अनेन क्तप्रत । [ शर्ववर्मा ] शर्व 'वृग्ट् वरणे' (१२९४) वृ । शर्व एनं वृषीष्ट । अनेन मन्प्र० । गु० अर् । [ गङ्गामित्त्रः ] गङ्गा ‘ञिमिदाच् स्नेहने' (१९८०) मिद् । गङ्गा एनं मिद्यादित्याशास्यमानः । उणादीनां कृत्त्वात् 'चिमि-दि-शंसिभ्यः कित्' (उणा० ४५४) कित् त्रप्र० । 'अघोषे प्रथमोऽशिट : ' (१|३|५०) द० → त० । ५४ [ वर्धमानः ] 'वृधूङ् वृद्धौ' (९५७) वृध् । वर्धिषीष्ट इत्याशास्यमानः । अनेन आनश्प्र० आन । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'अतो म आने' (४|४|११४) मोऽन्तः । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । सर्वत्र प्रथमा सि ॥छ । कर्मणोऽण् ||५/१/७२ ॥ [कर्मणः] कर्मन् पञ्चमी ङसि । 'र- षृवर्णान्नो ण एकपदेऽनन्त्यस्या - ऽल-च-ट- तवर्ग-श- सान्तरे' (२।३।६३) न० ण० । [ अण् ] अण् प्रथमा सि । निर्वर्त्य - विकार्यं प्राप्यं च कर्म, तस्मात् = कर्मणः । अजाद्यपवादः । निर्वर्त्यात् - [ कुम्भकारः ] कुम्भ 'डुकृंग् करणे' (८८८) कृ । कुम्भं करोतीति । अनेन अण्प्र० → अ । 'नामिनोऽकलि-हले:' ( ४|३|५१) वृद्धि: आर् । [ नगरकार: ] नगर 'डुकृंग् करणे' (८८८) कृ । नगरं करोतीति । अनेन अण्प्र० अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धि: आर् । विकार्यात्- [ काण्डलाव: ] काण्ड 'लूग्श् छेदने' (१५१९) लू । काण्डं लुनातीति । अनेन अण्प्र० → अ । 'नामिनोऽकलि-हले:' ( ४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव् ' (१।२।२४) आव् । [शरलाव: ] शर 'लूग्श् छेदने' (१५१९) लू । शरान् लुनातीति । अनेन अण्प्र० अ । 'नामिनोऽकलि-हलेः ' (४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव् ' (१।२।२४) आव् । प्राप्यात्- [ वेदाध्यायः ] वेद 'इंक् अध्ययने' (११०४) इ, अधिपूर्व० । वेदानधीते । अनेन अण्प्र० अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः ऐ । 'एदैतोऽयाय्' (१।२।२३) आय् । [ चर्चापार: ] चर्चा 'पार कर्मसमाप्तौ (१९०१) पार् । 'चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० । चर्चा पारयतीति । अनेन अणुप्र० → अ । 'णेरनिटि' (४।३।८३) णिच्लुक् । (८८५) हृ । भारं हरतीति । अनेन अण्प्र० अ । 'नामिनोऽकलि-हले ः ' [ भारहार:] भार 'हंग् हरणे' (४/३/५१) वृद्धि: आर् । [ सूत्रधार: ] सूत्र 'धंग् धारणे' (८८७) धृ । धरन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२० ) णिग्प्र० । 'नामिनोऽकलि-हले:' (४।३।५१) वृद्धिः आर् । सूत्रं धारयतीति । अनेन अण्प्र० अ । 'णेरनिटि' (४।३।८३) णिग्लुक् । [ भारवाहः] भार 'वहीं प्रापणे' (९९६) वह् । भारं वहतीति । अनेन अण्प्र० अ । 'ञ्णिति' (४|३|५० ) उपान्त्यवृद्धिः आ । Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy