SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य प्रथमः पादः॥ ५३ तिक्कृतौ नाम्नि ॥ ५।१७१ ॥ [तिक्कृतौ ] तिक् च कृत् च = तिक्कृतौ । [नाम्नि ] नामन् सप्तमी ङि । 'ई-ङौ वा' (२।१।१०९) अलुक् । [शान्तिः] 'शमू उपशमे' (१२३०) शम् । शम्यादित्याशास्यमानः । अनेन तिक्प्र० → ति । 'म्नां धुड्वर्गेऽन्त्योऽपदान्ते' (१।३।३९) म० → न० । अहन्पञ्चमस्य क्वि-क्ङिति (४।१।१०७) दीर्घः । [तन्तिः] 'तनूयी विस्तारे' (१४९९) तन् । तन्यादित्याशास्यमानः । 'न तिकि दीर्घश्च' (४।२।५९) इति प्रतिषेधात् अत्र पञ्चमलुक्-दीर्घश्च न भवति । अनेन तिकप्र० → ति । 'म्नां धुड्वर्गेऽन्त्योऽपदान्ते' (१।३।३९) न० → न० । [सन्तिः] 'षणूयी दाने' (१५००) षण् । 'षः सोऽष्ट्यै०' (२।३।९८) सन् । सन्यादित्याशास्यमानः । 'न तिकि दीर्घश्च' (४।२।५९) इति प्रतिषेधात् अत्र पञ्चमलुक्-दीर्घश्च न भवति । अनेन तिक्प्र० → ति । 'म्नां धुड्वर्गेऽन्त्योऽपदान्ते' (१।३।३९) न० → न० । [रन्तिः] रमि क्रीडायाम् (९८९) रम् । रम्यादित्याशास्यमाना(नः) = रन्ति । 'न तिकि दीर्घश्च' (४।३।५९) इति प्रतिषेधात् अत्र पञ्चमलुक्-दीर्घश्च न भवति । अनेन तिक्प्र० → ति । 'म्नां धुड्वर्गेऽन्त्योऽपदान्ते' (१।३।३९) म० → न०। __ [वीरभूः ] वीर 'भू सत्तायाम्' (१) भू । वीरो भूयादित्याशास्यमानः । अनेन क्विप्प्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लुक् । [मित्रभूः] मित्र 'भू सत्तायाम्' (१) भू । मित्रं भूयादित्याशास्यमानः । अनेन क्विप्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लुक् । इन्द्रभूतिः ] इन्द्रोऽस्य भूयादित्याशास्यमानः । अनेन क्तिप्र० → ति । [अग्निभूतिः ] अग्निरस्य भूयादित्याशास्यमानः । अनेन क्तिप्र० → ति । [वायुभूतिः ] वायुरस्य भूयादित्याशास्यमानः । अनेन क्तिप्र० → ति । [सोमभूतिः] सोमोऽस्य भूयादित्याशास्यमानः । अनेन क्तिप्र० → ति । [कुमारनीतिः ] कुमार ‘णींग प्रापणे' (८८४) णी । 'पाठे धात्वादेर्णो नः' (२।३।९७)नी । कुमारोऽस्य दुरितानि नयतामित्याशंसितः । अनेन क्तिप्र० → ति । [मित्रवृद्धिः ] मित्र 'वृधूङ् वृद्धौ' (९५७) वृध् । मित्रमेनं वधिषीष्ट = मित्रवृद्धिः । अनेन क्तिप्र० → ति । 'अधश्चतुर्थात् तथोर्धः' (२।१६७९) त० → ध० । 'तृतीयस्तृतीय-चतुर्थे' (१।३।४९) ध० → द० । [ देवदत्तः] देव 'डुदांग्क् दाने' (११३८) दा । *देवाय एनं देयासुर्देवदत्तः । अनेन क्तप्र० → त । 'दत्' (४।४।१०) दा० → दत्० । [यज्ञदत्तः] यज्ञ 'डुदांग्क् दाने' (११३८) दा । यज्ञाय एनं देयासुर्यज्ञदत्तः । अनेन क्तप्र० → त । 'दत्' (४।४।१०) दा० → दत् ।। ॥ इदमुदाहरणं बृहद्वृत्तौ नास्ति । + इदमुदाहरणं बृहद्वृत्तौ नास्ति । * श० म० न्या० - देवा० । ० श० म० न्या० - यज्ञ एनं देयात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy