SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । [साहयः] 'षहि मर्षणे' (९९०) षह । 'षः सोऽष्ट्यै- ष्ठिव - ष्वष्कः (२।३।९८) सह । सहमानं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२० ) णिग्प्र० । 'ञ्णिति' (४|३|५०) उपान्त्यवृद्धिः । साहयतीति साहयः । अनेन शप्र० → अ । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति ' ( ४|३|१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । ४६ [ सातयः] सातिः सौत्रो धातुः-सात् । सातन्तं प्रयुङ्क्ते । 'प्रयोक्तृ० ' ( ३ | ४ | २०) णिग्प्र० । सातयतीति सातयः । अवेन शप्र० । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति ' ( ४ | ३|१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । [ वेदयः] 'विदक् ज्ञाने' (१०९९) विद् । विदन्तं प्रयुङ्क्ते । 'प्रयोक्तृ० ' ( ३।४।२०) णिग्प्र० । वेत्ति - विद्यते - विन्दति-विनत्ति वा कश्चित् तमन्यः प्रयुङ्क्ते । 'प्रयोक्तृ० ' ( ३।४।२०) णिग्प्र० → इ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । वेदयतीति वेदयः । अनेन शप्र० । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति' (४|३|१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । [ उदेजयः ] 'एजृ कम्पने' (१४८) एज्। 'एजृङ् दीप्तौ' (६५९) एज्, उत्पूर्व० इति वा । उदेजन्तं - उदेजमानं वा प्रयुङ्क्ते । 'प्रयोक्तृ० ' ( ३।४।२०) णिग्प्र० । उदेजयतीति उदेजयः । अनेन शप्र० अ । 'कर्त्तर्यनद्भ्यः शव् (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति' ( ४|३|१) गु० ए । 'एदैतोऽयाय् ' (१।२।२३) अय् । 'लुगस्यादेत्यपदे' (२|१|११३) अलोपः । [ धारयः] ‘धृग् धारणे' (८८७) धृ । धरन्तं प्रयुङ्क्ते । 'प्रयोक्तृ०' ( ३।४।२०) णिग्प्र० । 'नामिनोऽकलिहले:' (४।३।५१) वृ० आर् । धारयतीति धारयः । अनेन शप्र० अ । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय् ' (१।२।२३) अय् । 'लुगस्यादेत्यपदे' (२|१|११३) अलोपः । [पारयः] ‘पार कर्मसमाप्तौ ' (१९०१) पार । 'चुरादिभ्यो णिच्' (३|४|१७) णिच्प्र० । 'अतः ' ( ४।३।८२) अलोपः । पारयतीति पारयः । अनेन शप्र० अ । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति' (४|३|१) गु० ए । 'एदैतोऽयाय् ' (१।२।२३) अय् । 'लुगस्यादेत्यपदे' (२|१|११३) अलोपः । [ चेतयः ] 'चितिण् संवेदने' (१८२६) चित् । 'चुरादिभ्यो णिच्' (३|४|१७) णिच्प्र० । 'लघोरुपान्त्यस्य' (४।३।४) So | चेतयत इति चेतयः । अनेन शप्र० अ । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति ' (४।३।१) गु० ए । 'एदैतोऽयाय् ' (१।२।२३) अय् । 'लुगस्यादेत्यपदे' (२|१|११३) अलोपः । [ प्रसाहयिता ] सह, प्रपूर्व० । प्रसहमानं प्रयुङ्क्ते । 'प्रयोक्तृ० ' ( ३।४।२०) णिग्प्र० । प्रसाहयतीति । 'णक-तृचौ ' (५।१।४८) तृच्प्र० तृ । 'स्ताद्यशितोऽत्रोणादेरिट्' (४|४ | ३२ ) इट् । प्रथमा सि । 'ऋदुशनस् ० ' (१।४।८४) सि० → डा० । 'डित्यन्त्य०' (२|१|११३) अन्त्यस्वरादिलोपः । [ छत्रधारः ] छत्र ण्यन्त - धारि । छत्रं धारयतीति । 'कर्मणोऽण्' (५/१/७२ ) अण्प्र० अ । 'णेरनिटि' (४।३।८३) णिग्लोपः । सर्वत्र प्रथमा सि । 'सो रुः' (२|१|७२) स०र० । रः पदान्ते विसर्गस्तयो:' (१।३।५३) विसर्गः ॥छ || P. P. 'षहण् मर्षणे' (१९८२) षह् । धरमाणं प्रयुङ्क्ते । Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy