SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य प्रथमः पादः॥ ४७ लिम्प-विन्दः ॥ ५।१।६० ॥ [लिम्पविन्दः ] लिम्पश्च विन्द् च = लिम्पविन्द्, तस्मात् । [लिम्पः] 'लिपीत् उपदेहे' (१३२४) लिप् । लिम्पतीति । अनेन शप्र० । 'तुदादेः शः' (३।४।८१) शप्र० । 'मुचादि-तृफ-दृफ-गुफ-शुभोभः शे' (४।४।९९) नागमः । 'म्नां धुड्वर्गेऽन्त्योऽपदान्ते' (१।३।३९) न० → म० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । [विन्दः] 'विद्रोंती लाभे' (१३२२) विद् । विन्दतीति । अनेन शप्र० । 'तुदादेः शः' (३।४।८१) शप्र० । 'मुचादि-तृफ-दृफ-गुफ-शुभोभः शे' (४।४।९९) नागमः । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । __ लिप्साहचर्यात् विन्देस्तौदादिकस्य ग्रहः, न तु 'विदु अवयवे' (३१०) इत्यस्य । [प्रलिपः] प्रलिम्पतीति प्रलिपः । 'नाम्युपा०' (५।१५४) कप्र० → अ ॥छ।। नि-गवादेर्नाम्नि ॥ ५।१६१ ॥ [निगवादेः] गौरादिर्येषां ते = गवादयः, निश्च गवादयश्च = निगवादि, तस्मात् । [ नाम्नि ] नामन् सप्तमी ङि । 'ईङौ वा' (२।१।१०९) अलोपः । [निलिम्पा नाम देवाः] 'लिपीत् उपदेहे' (१३२४) लिप, निपूर्व० । निलिम्पन्तीति निलिम्पाः । अनेन शप्र० । 'तुदादेः शः' (३।४।८१) शप्र० । मुचादि- तृफ-गुफ-दृफ-शुभोभः शे' (४।४।९९) नागमः । 'म्नां धुड्वर्गे०' (१।३।३९) न० → म० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । प्रथमा जस् । देव प्रथमा जस् । [गोविन्दः ] 'विद्रोंती लाभे' (१३२२) विद्, गोपूर्व० । गां विन्दतीति । अनेन शप्र० । 'तुदादेः शः' (३।४।८१) शप्र० । 'मुचादि-तृफ०' (४।४।९९) नागमः । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । __ [कुविन्दः ] कु-विद् । कुं विन्दतीति । अनेन शप्र० । 'तुदादेः शः' (३।४।८१) शप्र० । 'मुचादि-तृफ०' (४।४।९९) नागमः । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । [अरविन्दः ] अर-विद् । अरान् विन्दतीति अरविन्दः । अनेन शप्र० । 'मुचादि-तृफ०' (४।४।९९) नागमः । 'लुगस्यादे०' (२।१।११३) अलोपः । चक्रावयवविशेषः, अब्जे तु क्लीबत्वम्, कश्चित्त्वब्जेऽपि पुंस्त्वमाह, राजा च । [कुरुविन्दः ] कुरु - विद् । कुरून् विन्दतीति । अनेन शप्र० । 'तुदादेः शः' (३।४।८१) शप्र० → अ । 'मुचादि - तुफ०' (४।४।९९) नागमः । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । [निलिपः ] निलिम्पतीति । 'नाम्युपा०' (५।१५४) कप्र० → अ । सर्वत्र प्रथमा सि ॥छ।। वा ज्वलादि-दु-नी-भू-ग्रहा-ऽऽस्रोर्णः ॥ ५।१।६२ ॥ [वा] वा प्रथमा सि । [ज्वलादिदुनीभूग्रहाऽऽस्त्रोः] +ज्वल आदिर्येषां ते = ज्वलादयः, ज्वलादयश्च दुश्च नीश्च भूश्च ग्रहश्च आयुश्च = ज्वलादिदुनीभूग्रहाऽऽसु, तस्मात् । P. गौरादिर्यस्य सः = गवादिः, निश्च गवादिश्च.... । P. कु = ईषत् विन्दतीति । P. + ज्वल आदिर्यस्य सः = ज्वलादिः, ज्वलादिश्च दुश्च.... । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy