SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य प्रथमः पादः ॥ [उद्धमः] उत्-ध्मा । उद्धमतीति । अनेन शप्र० → अ । 'श्रौति-कृत्-धिवु-पा-घ्रा-ध्मा०' (४।२।१०८) "धम" आदेशः । घ्रादिसाहचर्यात् “पा" इति पिबतेर्ग्रहणं, न पातेः । [पिबः] 'पां पाने' (२) पा । पिबतीति । अनेन शप्र० → अ । 'श्रौति-कृवु-धिवु-पा०' (४।२।१०८) "पिब"आदेशः । [निपिबः] नि-पा । नितरां पिबतीति । अनेन शप्र० → अ । 'श्रौति-कृवु-धिवु-पा-घ्रा०' (४।२।१०८) "पिब"आदेशः । [उत्पिबः] उत्-पा । उत्पिबतीति । अनेन शप्र० → अ । 'श्रौति-कृवु-धिवु-पा-घ्रा-ध्मा०' (४।२।१०८) "पिब"आदेशः । [धयः ] 'ट्धे पाने' (२८) धे । धयतीति धयः । अनेन शप्र० → अ । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) सर्वत्र अलुक् । 'एदैतोऽयाय' (१।२।२३) अय् । [विधयः] वि-धे । विशेषेण धयतीति विधयः । अनेन शप्र० → अ । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् । 'एदैतोऽयाय्' (१।२।२३) अय् । [ उद्धयः] उत्-धे । उद्धयतीति उद्धयः । अनेन शप्र० → अ । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् । 'एदैतोऽयाय' (१।२।२३) अय् । [ पश्यः ] 'दृशं प्रेक्षणे' (४९५) दृश् । पश्यतीति पश्यः । अनेन शप्र० → अ । 'श्रौति-कृवु-धिवु-पा-घ्रा-ध्मास्था-ना-दाम्' (४।२।१०८) "पश्य"आदेशः । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् । [विपश्यः] वि-दृश् । विशेषेण पश्यतीति विपश्यः । अनेन शप्र० → अ । 'श्रौति-कृवु-धिवु-पा-घ्रा०' (४।२।१०८) “पश्य"आदेशः । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् । [उत्पश्यः] उत्-दृश् । उत्पश्यतीति उत्पश्यः । अनेन शप्र० → अ । 'श्रौति-कृवु-धिवु-पा-घ्रा०' (४।२।१०८) "पश्य"आदेशः । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् । [उद्धयी] उद्धय पूर्ववत् ज्ञेयः । 'अणजेयेकण्-नञ्-स्नञ्-टिताम्' (२।४।२०) ङी । 'अस्य यां लुक् (२।४।८६) अलुक् । [विधयी] विधय पूर्ववत् ज्ञेयः । 'अणजेयेकण्' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । शकारः शित्कार्यार्थः ॥छ।। साहि-साति-वेद्युदेजि-धारि-पारि-चेतेरनुपसर्गात् ॥ ५।१।५९ ॥ [साहिसातिवेद्युदेजिधारिपारिचेतेः] साहिश्च सातिश्च वेदिश्च उदेजिश्च धारिश्च पारिश्च चेतिश्च = साहिसातिवेद्युदेजिधारिपारिचेति, तस्मात् । [अनुपसर्गात् ] न विद्यते उपसर्गो यस्य सः = अनुपसर्गः, तस्मात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy