SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । [प्रतिश्यायः ] प्रतिश्यायते । 'तन् - व्यधीण् - श्वसात : ' ( ५ | १|६४ ) णप्र० अ । 'आत ऐः कृञ्ञ' (४|३|५३) आ० → ऐ० । 'एदैतोऽयाय्' (१।२।२३) आय् । ४४ ‘पूर्वेऽपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरान्' (न्या० सं० वक्ष० ( १ ) / सूत्र (३६)) इति णो बाध्यते नाणू, तेन[ गोसंदायः ] 'डुदांग्क् दाने' (१९३८) दा, गो-सम्पूर्व० । गां संददातीति । 'कर्मणोऽण्' (५।१।७२ ) अण्प्र० अ । आत ऐः कृञ्ञ' (४।३।५३) आ० → ऐ० । 'एदैतोऽयाय्' (१।२।२३) आय् । [ वडवासंदायः] वडवां संददातीति । 'कर्मणोऽण् (५/१/७२ ) अण्प्र० अ । 'आत ऐः कृञ्ञ' (४।३।५३) आ० → ऐ० । 'एदैतोऽयाय्' (१।२।२३) आय् ॥छ|| व्याघ्रा ऽऽ प्राणि-नसोः || ५|१|५७ ॥ [ व्याघ्राऽऽघ्रे ] व्याघ्रश्च आघ्रा च = व्याघ्राऽऽघ्रे । औ। 'औता' (१।४।२०) ए । [प्राणिनसोः ] प्राणी च नासिका च प्राणिनसोः । सप्तमी ओस् । ‘दन्तपादनासिकाहृदयासृग्यूषोदकदोर्यकृच्छकृतो दत्पन्नस्हृदसन्यूषन्नुदन्दोषन्यकञ्छकन् वा (२|१|१०१) नासिकाया "नस्”आदेशः । प्राणिनासिके, तयोः = [ व्याघ्रः प्राणी ] 'घ्रां गन्धोपादाने' (३) घ्रा, वि-आङ्पूर्व० । विविधमाजिघ्रति व्याघ्रः । अनेन प्र० अ । 'डित्यन्त्यस्वरादेः' (२|१|११४) आलुक् । [ आघ्रा नासिका ] 'घ्रां गन्धोपादाने' (३) घ्रा, आङ्पूर्व० । आजिघ्रतीति आघ्रा । अनेन डप्र० अ । 'डित्यन्त्यस्वरादेः' (२|१|११४) आलुक् । 'आत्' (२।४।१८) आप्प्र० आ । शस्यापवादः ॥छा = घ्राध्मा-पा- दूधे-दृशः शः || ५|११५८ ॥ [ घ्राध्मापाद्धेदृश: ] घ्राश्च ध्माश्च पाश्च ट्धेश्च दृश् च = घ्राध्मापाट्वेदृश्, तस्मात् । [श: ] श प्रथमा सि । [ जिघ्रः ] 'घ्रां गन्धोपादाने' (३) घ्रा । जिघ्रतीति । अनेन शप्र० अ । 'श्रौति - कृवु-धिवु - पाघ्राध्मा-स्थाना-दाम्-दृश्यत्ति-शद-सदः शृ-कृ-धि- पिब- जिघ्र-धम-तिष्ठ- मन- यच्छ- पश्यर्च्छ-शीय-सीदम्' (४।२।१०८) "जिघ्र" आदेशः । [ विजिघ्रः ] वि-घ्रा । विजिघ्रतीति । अनेन शप्र० → अ । 'श्रौति कृवु-धिवु-पा०' (४।२।१०८) "जिघ्र" आदेशः । [ उज्जिघ्रः ] उत्-घ्रा । उज्जिघ्रतीति । अनेन शप्र० → अ । 'श्रौति-कृवु-धिवु-पा-घ्राध्मा०' (४२ १०८) "जिघ्र" आदेशः । [विधमः ] विध्मा । विधमतीति । अनेन शप्र० "धर्म" आदेशः । [ धमः] ‘ध्मां शब्दा-ऽग्निसंयोगयोः' (४) ध्मा । धमतीति । अनेन शप्र० अ । 'श्रौति कृवु धिवु-पा-घ्रा - ध्मा-स्था-ना-दाम्-दृश्यत्ति-‍ -शद-सदः शृ-कृ-धि- पिब- जिघ्र-धम०' (४।२।१०८) "धम" आदेशः । → अ । 'श्रौति-कृवु-धिवु-पा-घ्रा ध्मा०' (४२११०८) Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy